________________
२३४
श्रीअजितप्रभुचरितम् सर्गः-३ द्वीपाम्भोधीनसङ्ख्यातानुल्लङ्घ्य क्षणमात्रतः । प्राप नन्दीश्वरं द्वीपं, तद्विमानं बिंडौजसः ॥१४३।। तत्र दक्षिणपूर्वस्मिन्, गिरौ रतिकरे हरिः । सञ्चिक्षेप विमानं तं, ग्रन्थार्थमिव सत्कविः ॥१४४।। सद्यश्चैवं विमानेन, सङ्क्षिप्तेन क्रमा[त्] क्रमात् । प्रभोर्जन्मगृहं प्राप्य, तिस्रोऽदत्त प्रदक्षिणाः ॥१४५।। अथैशान्यां विमानं तन्मुक्त्वा गेहान्तरं गतः । आलोकेऽपि प्रभुं मातृयुतं नत्वेदमब्रवीत् ॥१४६।। 'नमस्तुभ्यं त्वया मातर्जगत्रयविभूषणम् । जनयन्त्या पुत्ररत्नं, स्त्रीजातिरुदकृष्यत ॥१४७।। अहं सौधर्मकल्पेन्द्रस्त्वत्सूनोस्त्रिजगद्गुरोः । एतो जन्ममहं कर्तुं, न हि भेतव्यमम्ब ! तत्' ॥१४८॥ इत्युक्त्वा स्वोपिनी मातुर्दत्त्वा मुक्त्वा च सन्निधौ । प्रतिच्छन्दं प्रभोः शक्रः, पञ्चरूपोऽभवत् स्वयम् ॥१४९॥ दधे तत्रैकया मूर्त्या, गोशीर्षरसलेपतः । सुगन्धिनि करद्वन्द्वे, तीर्थनाथं सुरेश्वरः ॥१५०॥ आतपत्रं पुनर्मूबँकया द्वाभ्यां च चामरे । एकया तु पुरः क्षिप्रप्रतीष्ठं कुलिशं दधौ ॥१५१॥ एवं शक्रो व्रजन् स्वर्णशैलं प्रति सुधासनैः । सामानिकादिभिर्विष्वक्, परिवव्रे ससम्भ्रमम् ॥१५२॥
१. इन्द्रस्य । २. 'दत्त्वाऽसौ स्वापिनी देव्या, मुक्त्वात्र प्रतिमां प्रभोः' इति वासुपूज्यचरित्रे - ३।२२८। एतदाख्यां निद्राम् ॥