________________
२३३
देवेन्द्रकृतजन्ममहोत्सवः चञ्चत्सौवर्णकलशं, पताकालिमनोहरम् । पञ्चवर्णमणीकान्तिक्लृप्तशक्रधनुःशतम् ॥१३३॥ स्फुरद्भिः किङ्कणीक्वाणैर्मधुरैस्त्रिदशान् किल । जिनजन्ममहं कर्तुमाकारयदिदं व्यभात् ॥१३४|| त्रिभिविशेषकम् ॥ वासवोऽनुपमं बिभ्रद्रूपमुत्तरवैक्रियम् । आरुह्य तदलञ्चक्रे, रत्नसिंहासनं महत् ॥१३५॥ सामानिका महिष्यश्च, सामाजिका [अ]नीपकाः । आत्मरक्षाश्चासनानि, शिश्रिवांसो यथोचितम् ॥१३६।। नाट्यानीकेन गन्धर्वानीकेन च शचीपतेः । चेतः कौतुकपाथोधौ, मीनकल्पमकल्पत ॥१३७।। अष्टाऽष्टमङ्गलान्यासन्, पुरुहूतस्य चाग्रतः । सत्पूर्णकुम्भ-भृङ्गार-च्छत्राद्यं च तदन्वभूत् ॥१३८॥ महेन्द्रध्वजो योजनसहस्रो[च्च]स्ततोऽभवत् । पञ्चाऽनीकेश्वराश्चाऽधाऽऽभियोगिकसुरास्ततः ॥१३९॥ ततोऽप्यनन्तरं सर्वऋद्धिसम्भारराजिताः । सौधर्मवासिनो देवा, देव्यश्च प्रस्थिताः पुरः ॥१४०॥ नदद्विविधवाद्येन, विमानेनाऽमुना हरिः । उदतारीदुत्तरेण, सौधर्मात्तिर्यगध्वना ॥१४१॥ अन्येऽपि नानायानस्थास्त्रिदशा अनुवासवम् । चेलुः कोलाहलव्याप्तनभसः सम्भ्रमस्पृशः ॥१४२।। १. त्रिपर्षदे॒वाः । २. 'अथ' इत्यर्थः ।