SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २३२ अथ सेनान्यमाहूय, पुरुहूतः प्रकर्षभाक् । आदिक्षदाह्वय सुरान् कर्तुं जन्मोत्सवं प्रभोः ॥ १२३॥ श्रीअजितप्रभुचरितम् सर्गः - ३ तथेति प्रतिपद्याऽसौ, पाकशासनशासनम् । अताडयत् सुघोषां त्रिर्घण्टां योजनमण्डलाम् ॥ १२४ ॥ तस्याः प्रसृत्वरं नादमनु नेदुः परा अपि । घण्टा एकोनद्वात्रिंशल्लक्षसङ्ख्यविमानगाः ॥१२५॥ घण्टानां युगपन्नादाच्छब्दाद्वैते प्रसर्पति । सुराः प्रमादिनः सर्वेऽवहितत्वमशिश्रियन् ॥ १२६॥ नूनं कोऽप्यद्य शक्रस्य, निर्देशोऽस्तीति नाकिषु । ध्यायत्स्वाघोषयन्नैगमेषी तारस्वरं यथा ॥ १२७॥ विबुधा ! जम्बूद्वीपस्य, भरतेऽर्हज्जनुर्महे । हरिर्गन्ता महद्धर्ज्या तत्तत्रैत द्रुतमेत भोः ! ॥१२८॥ ततो देवा अमन्दोद्यत्प्रमोदाः सपरिच्छदाः । त्यक्ताशेषान्यकार्यौघाः, सारालङ्कारबन्धुराः ॥ १२९ ॥ गजा - ऽश्वादीनि यानानि विविधानि समाश्रिताः । प्रापुः सर्वेऽपि सौधर्मनायकस्य पुरः क्षणात् ॥ १३० || [युग्मम्] आभियोगिकदेवोऽथ, हरिणा पालकाभिधः । आदिष्टो विचकाराऽऽशु, विमानं पालकाभिधम् ॥१३१॥ पञ्चयोजनशत्युच्वं, लक्षयोजनविस्तृतम् । मणिस्तम्भशताकीर्णं, शालभञ्जीगणान्वितम् ॥१३२॥ १. इन्द्राज्ञाम्
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy