________________
देवेन्द्रकृतजन्ममहोत्सवः
ततो जिनं जिनाम्बां चानीय ताः सूतिमन्दिरे । शय्यायां न्यस्य गायन्त्योऽभ्यासे तस्थुर्यथोचितम् ॥११३॥
तदैव कल्पे सौधर्मे, सुधर्माभिधपर्षदि । सामानिकानां सहस्त्रैरशीत्या चतुरग्रया ॥ ११४॥
त्रयस्त्रिंशत्त्रायस्त्रिंशैश्चतुर्भिर्लोकपालकैः । परिवारसमेताभिर्महिषीभिस्तथाऽष्टभिः ॥११५॥
तिसृभिः परिषद्भिश्च, महानीकैश्च सप्तभिः । सप्तभिश्चानीकनाथैस्तथा प्रतिदिशं स्थितैः ॥ ११६ ॥ प्रत्येकं चतुरशीत्या, सहस्त्रैरात्मरक्षकैः । परैरप्यमरैनैकैः सेवितांऽहिसरोरुहः ॥ ११७||
शक्रस्य सहसा सिंहासनं कम्पमवाप्नुवत् । नृत्यं प्रादुश्चकारेव, जिनजन्मप्रमोदतः ॥ ११८ ॥ पञ्चभिः कुलकम् ॥
कोऽयं मुमूर्षुः पीठं मेऽचकम्पदिति कोपतः । धूतवज्रं हरिं प्रोचे, नैगमेषी चमूपतिः ॥ ११९ ॥ 'प्रभो ! कं प्रत्ययं कोपाटोपादुल्लाल्यते पविः । आज्ञापय यथा हन्ति, जनोऽयं तव विद्विषम् ॥१२०॥ प्रयुज्याऽथाऽवधिं बुद्धजिनजन्मा दिवस्पतिः । द्राग् मिथ्या दुष्कृतं दत्त्वा सिंहासनममुञ्चत ॥१२१॥
अभि प्रभुदिशं दत्त्वा, सप्ताष्टानि पदानि च । शक्रस्तवेन वन्दित्वा, भूयो भेजे स्वविष्टरम् ॥१२२॥
१. अनेकैः ।
२३१