SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २३० श्रीअजितप्रभुचरितम् सर्गः-३ प्राग्वत् परिजनोपेताः, समेताः सूतिसद्म तत् । नत्वा स्वामिनमम्बां च, स्वस्वरूपं न्यवेदयन् ॥१०३।। छित्त्वा प्रभो भिनालं, चतुरङ्गुलवर्जितम् । क्ष्मायां निखन्य खातं तद्रत्नपूरैः प्रपूर्य च ॥१०४।। तास्तदूद्धर्वं च दूर्वाभिः, पीठं बद्ध्वा सुबुद्धयः । प्रागपागुदगाशासु, रम्भासद्मत्रयं व्यधुः ॥१०५॥ युग्मम् ॥ ततो जिनं जिनाम्बां च, दक्षिणकदलीगृहम् । नीत्वा सिंहासने दिव्ये, चतुःशालस्थिते न्यधुः ॥१०६॥ शतपाकादिभिस्तैलैरभ्यङ्गमथ तास्तयोः । चक्रिरे गन्धद्रव्यैस्तूद्वर्त्तनं सुमनोहरैः ॥१०७।। ततः प्राक्कदलीवेश्मचतुःशालस्थितासने । न्यस्य तौ स्नपयित्वा चाऽभूषयन् वस्त्रभूषणैः ॥१०८॥ नीत्वाऽथोदीच्यरम्भौकश्चतुःशालान्तरे स्थिते । सिंहासने प्रभुं देवी, चासयन् वासनाञ्चिताः ॥१०९।। आनाय्य क्षुद्रहिमवत्पर्वतादाभियोगिकैः । गोशीर्षचन्दनैधांसि, मथितारणिदारुजे ॥११०॥ वह्नौ हुत्वा जगच्छान्तिकृतोऽपि परमेशितुः । बबन्धुस्ता जीतमिति, रक्षापोट्टलिकां करे ॥१११।। युग्मम् ॥ पर्वतायुर्भवेत्युक्तिपराः कर्णान्तिके प्रभोः । मिथोऽथाऽऽस्फालयामासुर्माणिक्योपलगोलकौ ॥११२॥ १. व्यवहारः।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy