________________
२२९
दिक्कुमारिकाकृतजन्ममहः इमाः प्राग्रुचकाद्रिस्थाः, पूर्ववत् सपरिच्छदाः । एत्य साम्बं जिनं नत्वा, तस्थुः प्राच्यां सदर्पणाः ॥९३॥ समाहारा सुप्रदत्ता, सुप्रैबुद्धा यशोधरा । लक्ष्मीवती शेषवती, चित्रगुप्ता वसुन्धरा ॥९४।। एता अपाच्यरुचकादागत्य सपरिच्छदाः । प्राग्वत् प्रणम्य गायन्त्योऽपाग् भृङ्गारभृतः स्थिताः ॥१५॥ इलादेवी सुरादेवी, पृथिवी पद्मवत्यपि । एकनासा नवमिका, भद्रा सीतेत्यमूः पुनः ॥९६॥ प्रत्यग्रुचकवास्तव्या, एत्य तावत्परिग्रहाः । नत्वा गानपरास्तस्थुः, प्रत्यग् व्यजनपाणयः ॥९७॥ अलम्बुसा मिश्रकेशी, पुण्डरीका च वारुणी । हाँसा सर्वप्रभा हीः श्रीरित्यष्टौ दिक्कुमारिकाः ॥९८॥ उदीच्यरुचकस्थानाः, पूर्वप्रोक्तपरिच्छदाः । एत्य प्रणम्य गायन्त्य, उदक् तस्थुः सचामराः ॥९९॥ विदिग्रुचकवास्तव्याश्चतस्रो दिक्कुमारिकाः । चित्रा चित्रकनका सतेरा सौर्दामनी तथा ॥१००॥ एत्य प्रभुं प्रभोश्चाम्बां, वन्दित्वा दीपिकाकराः । गायन्त्यः स्वस्वविदिशि, तस्थुः सुस्थिरभक्तयः ॥१०१॥ रुचकद्वीपमध्यस्थाश्चतस्रो दिक्कुमारिकाः । रूमा रूपांशिका चैव, सुरूपा रूपंकावती ॥१०२॥ १. 'सतेरा सौत्रामणी तथा' इति त्रिषष्टिः ।१।२।२९९।
06
॥९८॥