________________
२२८
श्रीअजितप्रभुचरितम् सर्गः-३
'जय स्वामिनि ! रामासु, मूर्द्धन्ये ! जगदुत्तमे ! । विश्वप्रदीपो विश्वाच॑स्त्वयाऽयं सुषुवे सुतः ॥८३॥ [दिक्]कुमार्यो वयं मातरधोलोकस्थितालयाः । जिनजन्ममहं कर्तुमायाता मा कृथा भयम्' ॥८४।। इत्युक्त्वा व्यधुरैशान्यां, दिशि स्तम्भसहस्रभाक् । प्राङ्मुखं सूतिसदनमेताश्चिन्तनमात्रतः ॥८५॥ परितः सूतिकागेहमायोजनमथ क्षणात् । अपजहुः संवतकवातादशुचिपुद्गलान् ॥८६॥ ततः संहृत्य पवनं, तस्थुस्तास्त्रिजगत्प्रभोः । अद्ववीयसि मङ्गल्यगीतगानपरायणाः ॥८७।। नन्दनोद्यानकूटस्था, ऊर्द्धलोकगता अथ । दिक्कुमार्यः पूर्वरीत्या, परिवारविराजिताः ॥८८॥ मेघङ्करा मेघवती, सुमेघा मेघमालिनी । सुमित्रा व मित्रा च, वारिषेणा बलाहका ॥८९॥ इत्यष्टौ प्राप्य सूत्योको, जिनमम्बां प्रणम्य च । ज्ञापयित्वा स्वमह्नाय, स्तनयित्नून् विचक्रिरे ॥९०॥ आयोजनं भुवं शान्तपांशुं गन्धाम्बुवर्षतः । पुष्पाकीर्णां च कृत्वा ता, गायन्त्यस्तस्थुरन्तिके ॥११॥ अथ नन्दोत्तरा-नन्दे, आनन्दा-नन्दिवर्द्धने । विजया वैजयन्ती च, जयन्ती चाऽपराजिता ॥१२॥ १. अनतिदूरे । २. 'सुवत्सा वत्समित्रा च' इति त्रिषष्टि. २।२।१८९॥