________________
२२६
श्रीअजितप्रभुचरितम् सर्गः-३ पलायाञ्चक्रिरे क्षुद्रोपद्रवा निखिलास्तदा । खेलन्ति मत्तमातङ्गाः, किं केसरिसमागमे ? ॥६३।। एवं जगत्तुष्टिकर, जगन्नाथं जिनेश्वरम् । गर्भेऽम्बा बिभ्रती जातु, नाप क्लेशकणामपि ॥६४|| वैजयन्त्यपि गर्भस्थं, बिभ्राणा चक्रवर्तिनम् । सुसखीशिक्षया पथ्याहारादिविधिमादधौ ॥६५॥ गीर्वाण-नरनाथाभ्यां, पूरिताखिलदोहदे । विजया-वैजयन्त्यावित्यभाष्र्टी गैरभौ सुखम् ॥६६।। अथाऽर्द्धाष्टमघस्रे च, मासानां नवके गते । माघमाससिताष्टम्यां, रोहिणीधिष्ण्यगे विधौ ॥६७॥ जात्यकाञ्चनदीप्राङ्गमूरुस्थद्विरदध्वजम् । असूत विजया पुत्रं, कल्पद्रु मेरुभूमिवत् ॥६८॥ युग्मम् ॥ भुवनत्रितयेऽप्यासीत्, कोऽप्युयोतस्तदा क्षणम् । सद्य आविरभूच्छर्म, नारकाङ्गभृतामपि ॥६९॥ दिशः प्रसन्नतां प्रापुरनुकूलो ववौ मरुत् । पुष्पवर्षोऽभवद्विष्वग्, नेदुर्दुन्दुभयोऽम्बरे ॥७०॥ अथाऽऽसनप्रकम्पात् षट्पञ्चाशद्दिक्कुमारिकाः । ससम्भ्रमा अवधिना, जिनस्य विविदुर्जनिम् ॥७१।। मुक्त्वाऽऽसनान्यनु जिनदिशं दत्त्वा पदानि च । सप्ताऽष्टान्यनमन् शक्रस्तवोच्चारपुरःसरम् ॥७२।।
१. गौं ।