SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ श्रीअजितप्रभोश्च्यवनं स्वप्नदर्शनादि च तज्ज्ञेयो विजयादेव्याः, सूनुरर्हन् जगन्नुतः । वैजयन्त्यास्तु षट्खण्डभरतक्षोणिनायकः' ॥५२॥ श्रुत्वेति राज्ञा प्रीतेन, पारितोषिकदानतः । सन्तोषिता विसृष्टास्ते, ययुः स्वं स्वं निकेतनम् ॥५३॥ विजया-वैजयन्त्यावप्यथाऽऽगारं निजं निजम् । प्राप्ते गर्ने निराबाधं, बिभरामासतुर्मुदा ॥५४॥ जिनेन्द्रमातुरावासप्राङ्गणावनिमादरात् । कल्याणीभक्तयो वायुकुमार्योऽमार्जयन् सदा ॥५५॥ अभ्यषिञ्चन्त तामब्दकुमार्यो गन्धवारिभिः । अकिरंस्तत्र सुमनःप्रकरानृतुदेवताः ॥५६॥ ज्योतिष्कललनास्तीर्थपतेर्मा[तु]रदर्शयन् । रत्नादर्श यथाकालं, प्रकाशं च वितेनिरे ॥५७।। किन्नों मधुरं गीतं, जगुः श्रुतिसुखं पुरः । व्यन्तरस्त्रिय आदेशं, प्रतीच्छन्ति स्म चानिशम् ॥५८।। पुरन्दरनिदेशेन, स्वभक्त्या च सुरीजनैः । इत्थं सा विजयादेवी, सिषेवे हर्षपोषतः ॥५९॥ अन्यच्च विजया शारैः, क्रीडन्ती प्रेयसा समम् । पुण्यगर्भानुभावेन, जयमेव समासदत् ॥६०॥ दध्यौ नृपः प्रभावोऽसौ, गर्भस्यैव तदङ्गजे । जाते वाच्योऽयमजित, इति सान्वयसञ्जया ॥६१॥ प्रभोर्गर्भाश्रितस्यापि, प्रभावात् क्षितिमण्डले । उल्लसन्ति स्म श्रेयांसि, शस्यानीव सुवाततः ॥६२॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy