SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २२२ श्रीअजितप्रभुचरितम् सर्गः-३ नृपः प्राज्येऽपि शुद्धान्ते, तस्यां प्रेम परं दधौ । सुमनोनिवहे यद्वज्जात्यामेव शिलीमुखः ॥२०॥ इतश्च शुक्लवैशाखत्रयोदश्यां निशाकरे । चित्राधिष्ण्यगते च्युत्वा, विमानाद्विजयाह्वयात् ॥२१॥ जीवो विमलभूपस्य, ज्ञानत्रयविराजितः । श्रीमत्या विजयादेव्याः, कुक्षिदेशमशिश्रियत् ॥२२॥ युग्मम् ॥ गर्भवासमुपेतस्य, प्रभोस्तस्य प्रभावतः । अपि नारकजन्तूनामुदपादि क्षणं सुखम् ॥२३॥ तस्या एव निशस्तुर्ये, यामे प्रवरतल्पगा । अद्राक्षीद्विजयादेवी, महास्वप्नांश्चतुर्दश ॥२४॥ गजो वषो मुंगारातिरभिषेकः श्रियस्तथा । दामाऽमृतकरो भानुर्ध्वजः पूर्णघटोऽपि च ॥२५॥ पद्मरम्यं सरोऽम्भोधिविमानं रत्नसञ्चयः । निर्दूमश्चाऽग्निरित्येतान्, स्वप्नान् वीक्ष्य व्यबोधि सा ॥२६॥ युग्मम् ।। तस्मिन्नेव क्षणे जातासनकम्पा जिनेशितुः । आद्यं कल्याणकं ज्ञात्वाऽवधिज्ञानेन वासवाः ॥२७॥ गत्वा पदानि सप्ताऽष्टान्युन्मुखं तीर्थकृद्दिशः । ववन्दिरे महाभक्त्या, शक्रस्तवपुरःसरम् ॥२८॥ युग्मम् ॥ प्रमोदमेदुराश्चाथ, जितशत्रुनृपौकसि । आगत्य विजयादेवीं, प्रणिपत्येति तुष्टुवुः ॥२९॥ १. राधशुक्लत्रयोदश्यां, रोहिणीधिष्ण्यगे विधौ । ज्ञानत्रयधरः पुत्ररत्नत्वेनोपपद्यत ॥ त्रिषष्टि० ।२।२।१९। 'वैसाहसुद्धतेरसीए चित्ताणक्खत्ते विजयाए कुच्छिसि पुत्तत्ताए उववण्णो' इति चउप्पन्नमहापुरिसचरियम्मि । 78
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy