________________
२२४
श्रीअजितप्रभुचरितम् सर्ग: ३
प्रत्युवाच नृपः ‘स्वप्ना, देव्याऽप्यद्यैत एव हि । निरैक्षिषत राज्यश्रीभोगकीर्त्तिसुखप्रदाः' ॥४१॥ सुस्वप्नानामथैतेषां, विशेषात् फलमद्भुतम् । द्रुतमाह्वाय्य प्रष्टव्याः, स्वप्नशास्त्रविशारदाः ॥४२॥ अथोर्वीनाथनिर्देशादाहूता वेत्रिणा जवात् । नैमित्तिकाः कृतस्नानाः, संवीतश्वेतवाससः ॥४३॥
अनर्घ्यस्वल्पालङ्काराः, समागत्य महीभुजम् । आनन्द्याऽऽशीर्भिः प्राग्न्यस्तासनेषु समुपाविशन् ॥४४॥ युग्मम् ॥ आसयित्वा जवनिकान्तरे जायां वधूमपि । फलपुष्पकरोऽपृच्छत्तान् स्वप्नानां फलं नृपः ॥४५॥ अथो मिथो विचार्यैते, निश्चितार्थाः स्फुरन्मुदः । भूमीश्वराय स्वप्नार्थमित्याख्यन् क्षोभवर्जिताः ॥ ४६ ॥ 'स्वप्ना द्वासप्ततिः प्रोक्तास्त्रिंशत्तेष्वपि सत्तमाः । महास्वप्नाः पुनः क्ष्माप !, तेष्वप्येते चतुर्दश ॥४७॥ अर्हतश्चक्रिणो वाऽम्बा, तस्मिन् गर्भं समाश्रिते । स्फुटास्फुटानिमान् पश्येन्, महास्वप्नांश्चतुर्दश ॥४८॥ सप्तेक्षते महास्वप्नानेषां मध्यात् प्रसूर्हरेः । चतुरस्तु बलस्याऽम्बा, मातैकं मण्डलेशितुः ॥४९॥ अर्हन्तौ नैककालं द्वौ, न च स्तश्चक्रिणावपि । अर्हन् पुत्रस्तदेकस्या, अपरस्याश्च चक्रभृत् ॥५०॥ जिनागमे श्रूयते च, जितशत्रुनृपाङ्गजः । द्वैतीयीको जिनाधीशश्चक्रभृत्तु सुमित्रभूः ॥५१॥