________________
तृतीयः सर्गः अस्ति रत्नमयेनोच्चैर्जम्बूवृक्षेण शोभितः । जम्बूद्वीपाभिधो द्वीपः, सम्पूर्णशशिसन्निभः ॥१॥ सप्तवर्षोऽपि यश्चित्रं, वर्ण्यतेऽनादिमान् बुधैः । श्लिष्यत्युच्चैः श्रियं यश्च, मन्दरागभृदप्यहो ॥२॥ तत्र दक्षिणवाय॑न्तेऽधिज्यकामुककान्तिभृत् । वर्ष भारतनामाऽस्ति, शस्तानामेक आश्रयः ॥३॥ वैताढ्येनाऽन्तरस्थेन, दलितस्याऽस्य दक्षिणे । दले समस्त्ययोध्येति, नगरी पीवरी श्रिया ॥४॥ यस्यां जैनालयोत्क्षिप्तधूपधूमालिमुद्वराम् । पश्यन्तः केकिनो नित्यं, नृत्यन्त्यम्भोदशङ्कया ॥५॥ यस्यामृद्धिभरापास्ताऽलकायां खिद्यते खलु । अर्थिनोऽनाप्नुवन् यत्नादपि दातृजनोऽनिशम् ॥६॥ द्रव्येण भारभूतेन, क्रीणते यत्र सद्धियः । धर्मरत्नं परलोकदीर्घवर्त्मन्यभारकृत् ॥७॥ तस्यामृषभनाथस्य, सिद्धिप्राप्तेरनन्तरम् । सिद्धिं सर्वार्थसिद्धिं च, सङ्ख्यातीतेषु राजसु ॥८॥