________________
विजयविमाने गमनम्
किञ्चिन्यूनां लोकनाडीं, पश्यन्नवधिसम्पदा । कल्पातीतः सुखं सिद्धिसुखकल्पमशिश्रियत् ॥१००४॥ युग्मम् ॥ सप्तधातुविमुक्ताङ्गः, सुखशय्यामधिष्ठितः । स त्रयस्त्रिशतं तत्राऽत्यगात् क्षणवदम्बुधीन् ॥१००५|| प्राक् षण्मास्याश्च्यवनसमयं नाकिनोऽन्येऽल्पपुण्या, मा[ला]म्लानिप्रभृतिभिरहो !, दुर्निमित्तैर्विदन्ति । गीर्वाणोऽसौ पुनरसमभाः, प्रोद्यदानन्दपूरो, ज्ञानेनैवाऽबुधदवधिनाऽभ्यर्णसिद्धत्वलब्धिः ॥१००६॥ [मन्दाक्रान्तावृत्तम्]
इति श्रीपद्मप्रभाचार्यचरणराजीवचञ्चरीकश्रीदेवानन्दसूरिविरचिते श्री अजितप्रभुचरिते
आनन्दाङ्के महाकाव्ये
१
३
लक्ष्मी बन्धु-स्त्री-विषय- शरीरवैरस्यसूचकश्रीपति कीर्त्तिचन्द्र-अगडदत्तमधुबिन्दु-शशिप्रभाऽऽख्यानाऽविरतिस्वरूपनिरूपकजिनपालित
२
४
५
२१९
जिनरक्षितदृष्टान्तगर्भितभगवन्पूर्वभववर्णनो नाम द्वितीयः सर्गः ॥छ| ॥ ग्रं. १०१३ अ. २८ ॥
॥ सर्गद्वये ग्रं. २२५६ अ. २० ॥