SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २१८ श्रीअजितप्रभुचरितम् सर्गः-२ व्रतान् भवद्रुमोच्छित्त्यै, पशुवत्तारतीव्रकान् । अतीचारोज्झितान् शुद्धमानसः सततं श्रये ॥९९३।। स्थावरान् भू-पयो-वह्नि वायु-वृक्षभिदोऽङ्गिनः । त्रसान् द्वीन्द्रियप्रभृतीन्, क्षमयाम्यस्तमत्सरः ॥९९४|| प्राणिघातादिकान्यष्टादश पापास्पदान्यपि । मोक्षाध्वरोधकारीणि, व्युत्सृजामि त्रिधा त्रिधा ॥९९५।। सन्तु मे शरणं तीर्थकृतः सिद्धाः सुसाधवः । जैनो धर्मश्च चत्वारोऽप्येते भवभयापहाः ॥९९६।। रागद्वेषवशोऽकार्ष, यत् किञ्चि[द्] दुष्कृतं क्वचित् । तन्निन्दामि पुनर्नैव, विधास्यामीति निश्चितम् ॥९९७।। ज्ञानादिगोचरं किञ्चित्, सुकृतं यत् पुनर्व्यधाम् । क्लेशसंहतिविध्वंसि, तत् सर्वमनुमोदये ॥९९८॥ कश्चिन्न मे नाऽहमपि, कस्यचिभैरवे भवे । इत्युल्लसितसद्भावो, भजे निर्ममतां सदा ॥९९९।। तृप्तिर्न जातु जाता यं, भुक्त्वा भवशतेष्वपि । त्रिधा चतुविधाहारं, प्रत्याख्यामि भवेऽत्र तम् ॥१०००। श्रुतसारं नमस्कारं, पञ्चानां परमेष्ठिनाम् । ध्यायाम्यदीनहृदयः, सर्वकल्याणकारणम् ॥१००१।। इत्थमाराधनां कुर्वन्, समाधि परमं श्रितः । देहं त्यक्त्वा स राजर्षिर्विमानं विजयं ययौ ॥१००२॥ तत्राऽसौ हस्तमानाङ्गोऽहमिन्द्रो निरहङ्कृतिः । शारदेन्दुप्रभाशुभ्रश्चारुभूषणभूषितः ॥१००३।।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy