SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ विमलवाहनमुनेस्तीर्थकृत्कर्मोपार्जनम् त्रिदशस्तुत्यचारित्रो, दशधा धर्ममुत्तमम् । बिभ्राणः शुभ्रयामा[स], यशसाऽसौ दिशो दश ॥९८२॥ एवं निर्मलचारित्रगुणः सद्गणसंस्तुतः । [समस्तां] पेठिवानेकादशाङ्गीं मुनिपुङ्गवः ॥९८३॥ 6 स भक्तोऽर्हत्सु॑ सिद्धेषु, जिनप्रवचने तथा । गुरुषु स्थविरेषूच्चैः, श्रुतभृत्सु तपस्विषु ॥९८४॥ उमयुक्तः सदा ज्ञाने, विधृतोज्ज्वलदर्शनः । विशुद्धविनयो दोषवर्जितावश्यकक्रियः ॥९८५॥ 12 निरतीचारसच्छीलव्रतमण्डनमण्डितः । 13 अप्रमादी क्षणलवप्रभृतावप्यनेहसि ॥ ९८६ ॥ 14 तपः परायणो द्रव्यभावत्यागोल्लसन्मतिः । 17 वैयावृत्त्ये महोत्साहो, 'गुर्वादिषु समाधिकृत् ॥९८७॥ अपूर्वज्ञानसङ्ग्राही, श्रुतभक्तिपवित्रितः । २१७ 20 प्रभावयन् प्रवचनं, तीर्थकृन्नाम बद्धवान् ॥९८८|| पञ्चभिः कुलकम् ॥ एकावलि - रत्नावलि- कनकावलिनामकैः । सिंहनिष्क्रीडिताद्यैश्च तपोभिः कृशयंस्तनुम् ॥९८९ ॥ उपसर्गान् सहमानस्तिर्यग्नसुरनिर्मितान् । स लब्ध्वाऽनेकसल्लब्धीविजहार वसुन्धराम् ॥ ९९०॥ युग्मम् ॥ बुद्ध्वाऽथ स्वायुःपर्यन्तं, कृतसंलेखनाद्वयः । पर्यन्ताराधनामेवं, सोऽकार्षीद् गुरुसाक्षिकम् ॥९९१॥ ज्ञान-दर्शन- चारित्र- तपोवीर्यात्मको मया । अत्यचारि य आचारस्तत्र मिथ्याऽस्तु दुष्कृतम् ॥९९२॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy