________________
२१६
श्रीअजितप्रभुचरितम् सर्गः-२ सारं सोदरयुग्मस्याऽऽख्यातमेतन्महामुने ! । निशम्याऽविरतिं दूरे, त्यजेश्चारित्रमाश्रितः ॥९७१॥ इति शिक्षा हितां राजऋषिविमलवाहनः । तथेति प्रतिपेदानो, व्यहार्षीद् गुरुभिः सह ॥९७२॥ सज्ज्ञानमेकमासाद्य, योगं सावद्यमेककम् । विवर्जयन् शमिष्वेकः, शुशुभे स महामुनिः ॥९७३।। माध्यस्थ्यऋष्टिना राग-द्वेषाख्यौ द्वौ भटौ जयन् । द्विविधस्यापि मोहस्याऽभवदेष भयङ्करः ॥९७४॥ अशल्यितस्त्रिभिः शल्यैस्त्रिभिर्दण्डैरदण्डितः । स रत्नत्रितयं धीरः, सञ्चिकाय शुभायतिः ॥९७५।। चतुर्गतिभवात् क्लेशराशेर्बिभ्यदयं यतिः । कषायांश्चतुरोऽमुञ्चच्चतस्रो विकथा अपि ॥९७६।। रतः पञ्चविधाचारे, यियासुः पञ्चमी गतिम् । इन्द्रियाणि स पञ्चापि, निजग्राह समाहितः ॥९७७।। षोढा जीवनिकायं स, स्वात्मवत् परिचिन्तयन् । प्रत्येकं षड्विधं बाह्यमान्तरं च तपोऽतनोत् ॥९७८।। श्रयन् पिण्डैषणाः सप्त, सप्त पानैषणा अपि । सप्तानां दुर्गतीनां स, द्वारश्चक्रे दृढार्गलाः ॥९७९।। मुक्तोऽष्टभिर्मदैरष्टकर्मनिर्मूलनोद्यतः । अष्टौ प्रवचनमातृर्मुनिः शश्वदपोषयत् ॥९८०॥ नवाऽपि ब्रह्मगुप्तीः स, हीनसत्त्वैः सुदुर्द्धराः । निधिवद्धारयामास, तपनीयगुणोच्चयः ॥९८१॥