________________
अविरतिपरिहारे जिनपालित-जिनरक्षितकथा यथा लाभार्थिनावेतौ, वणिजौ भविनस्तथा । सुखार्थिनो भवाम्भोधि, परिभ्राम्यन्ति भीषणम् ॥९६१॥ रत्नद्वीपो यथाऽम्भोधौ, तथा मर्त्यभवो भवे । रत्नादेवी यथा क्रूरा, तथैवाऽविरतिः पुनः ॥९६२।। इयं हि मधुरा पूर्वं, प्रान्तेऽनर्थनिबन्धनम् । मृगतृष्णोपमैः सौख्यैः, प्रलोभयति देहिनः ॥९६३॥ यथा ताभ्यां च शूलास्थः, पुमानैक्षि तथाऽङ्गिभिः । धर्मवक्तेक्ष्यते दृष्टाऽविरत्युत्थविडम्बनः ॥९६४॥ रत्नादेव्या यथा घोरं, वृत्तं क्लेशैककारणम् । यक्षराजाच्च तन्मोक्षं, कृपालुः स नरोऽवदत् ॥९६५।। तथैवाऽविरते नावेदनानां निदानताम् । चारित्रान्निवृत्तिं च [स], ब्रूते धर्मानुशासकः ॥९६६।। यथा यक्षेशपृष्ठं तावाश्रितौ तस्य शिक्षया । तथाऽऽश्रयन्ति चारित्रं, धर्मशास्त्रगिराऽङ्गिनः ॥९६७।। सुरीवाग्भिर्यथा चैको, विमूढः क्लेशभागभूत् । तथा जीवा दुःखभाजो, भवन्त्यविरतेर्वशाः ॥९६८॥ यथाऽन्यो यक्षपृष्ठस्थः, सुरीवाग्भिरकम्पितः । तीवा॑ऽब्धि स्वपुरीं प्राप्तः, परमां मुदमासदत् ।।९६९।। तथा श्रिताः सुचारित्रं, दूरिताऽविरतिक्रमाः । भवं मुक्त्वाऽङ्गिनः सिद्धिं, सम्प्राप्ताः स्युः सुखास्पदम् ॥९७०॥ -- इत्यविरतिपरिहारे जिनपालित-जिनरक्षितदृष्टान्तः । ग्रं. १२७ --