SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २१४ श्रीअजितप्रभुचरितम् सर्गः -२ तुष्टचेतास्ततोऽप्यन्वागत्याऽऽशु जिनपालितम् । मधुरैर्वचनै रत्नादेवी सैवमवोचत ॥ ९५० ॥ 'अयं दायादवत् प्रेयंस्तव सौख्यविभागभाक् । अनिष्टत्वान्मयाऽलीकवाग्भिः प्रत्याय्य संहृतः ॥ ९५९ ॥ असाधारणमेवाऽथ, सुखं वैषयिकं मुदा । मया स्वायत्तया सार्धं, निष्प्रत्यूहं भज प्रिय ! ' ॥९५२॥ 'लघुबन्धोर्गतिं मा गा, अमुष्याः प्रतियन् वचः' । इति यक्षगिरं मन्यमानोऽबहु न सोऽक्षुभत् ॥ ९५३ ॥ ततः सुरी परिश्रान्ता, व्याघुट्याऽगान्निजास्पदम् । यक्षश्चम्पापुरोद्यानेऽमुञ्चच्च जिनपालितम् ॥९५४॥ आपृच्छ्याऽन्तर्हिते यक्षे, स्वगेहं जिनपालितः । प्राप्तस्ताताय तं सर्वं वृत्तान्तं विन्यवेदयत् ॥ ९५५ ॥ पितृभ्यां प्रेतकार्याणि, परासोः सूनुजन्मनः । कृत्वा न्यस्तो गृहस्वाम्ये, सो प्राभुक्त चिरं सुखम् ॥ ९५६ ॥ कदाचित् सुगुरोर्वाचं, निशम्याऽतिविरागवान् । श्रितवांश्चारुचारित्रं, चतुराणां शिरोमणिः ॥ ९५७ ॥ पठित्वैकादशाऽङ्गानि, मृत्युं लब्ध्वा समाधिना । सागरद्वितयायुष्कः, सौधर्मेऽथाऽभवत् सुरः || ९५८ ।। च्युत्वा ततो विदेहेषु, लब्धोत्तमकुलः कृती । आत्तव्रतो धुताऽशेषकर्मा निर्वृतिमाप्स्यति ॥ ९५९ ॥ आख्यानस्याऽस्य गम्भीरार्थस्याऽथोपनयं स्फुटम् । आकर्णय मुने ! स्फारबुद्धे ! विमलवाहन ! ॥ ९६०॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy