________________
अविरतिपरिहारे जिनपालित-जिनरक्षितकथा
असौ प्रतिवचो नो चेद्दत्ते मा दात् प्रभो ! पुनः । तव शश्वत्प्रसादैकपरस्यैवं न युज्यते ॥ ९३९ ॥ विरहात्तव चित्तं मे, स्फोटतीदं झटित्यपि । रक्ष रक्ष वधूहत्यापापपात्रं स्म मा भवः ॥ ९४०॥ रे रे हृदय ! मा स्फोटीः, स्फुटमेष दयानिधिः । करिष्यत्येव मे प्रेयान् प्रसादं सरलाशयः ' ॥९४१॥ इत्थमुक्तमपि ज्ञात्वा, तमस्निग्धं सुरिब्रुवा । पुनः स्माह 'न चेत् स्नेहं धत्से मा धा हृदीश्वर ! ॥९४२॥ किन्त्विमां किङ्करीं कान्त !, सम्भावय सकृद् दृशा । येनेयं स्वस्थतां प्राप्ता, प्राणान् वाद्ध विमुञ्चति ॥ ९४३ ॥ अभाग्योदयतो वाऽस्मिन् भवे मां वीक्षसेऽपि न । भवान्तरेऽपि तद्भूयाः, प्राणनाथस्त्वमेव मे ॥९४४॥ इत्युक्त्वा साऽम्बुधौ यावज्जम्पां दातुं प्रचक्रमे । तावदेतन्मन्यमानोऽलीकमप्यनलीकवत् ॥९४५॥ शूलाप्रोतनरादिष्टं, तद्विस्मृत्याऽखिलं क्षणात् । अवमत्य यक्षशिक्षां तामायतिहितामपि ॥ ९४६ ॥
"
२१३
विषमेषुशराघातविह्वलः प्रेममञ्जुलाम् ।
व्यापारयद् दृशं तस्यां, जडधीर्जिनरक्षितः ॥९४७॥ त्रिभिर्विशेषकम् ॥ धुत्वा पृष्ठं ततो यक्षेणाऽब्धौ क्षिप्तः सकोऽपि तत् ।
'अरे दास ! पुरस्तान्मे, साम्प्रतं क्व नु गच्छसि ? ॥ ९४८ ॥
मृतोऽसीति' प्रजल्पन्त्या, सुर्या शूलेन कीलितः । खण्डीकृत्य च खड्गेन, क्षिप्रं चक्रे दिशां बलिः ||९४९|| युग्मम् ॥