________________
श्रीअजितप्रभुचरितम् सर्गः - २
२१२
'युवां मत्पृष्ठमारूढौ, मा स्म भैष्टं यमादपि । इति यक्षगिरा तौ तु, दृढचित्तौ बभूवतुः ॥९२८|| रत्नादेवी त्ववधिना, तौ विबुध्य तथाविधौ । अपप्रथत् प्रेमगर्भं, प्रपञ्चचतुरा वचः ॥ ९२९ ॥ ‘सागसोऽपि परित्यागः, स्वीकृतस्य न युज्यते । नाथौ ! विशेषतः स्वस्या, दास्याः पुनरनागसः ॥ ९३०॥ प्रियौ ! प्रेमवती कान्ता, भक्ता सरलमानसा । न युज्यते वियोगाग्नौ, क्षेप्तुं वां करुणार्द्रयोः ॥ ९३१॥ तज्जल्पितं तद्धसितं, तत् क्रीडितमपि क्षणात् । विस्मृत्य मन्तुना केनाऽप्रसादोऽद्य विधीयताम् ॥९३२॥
स्मरामि स्वकृतं किञ्चिन्नाऽऽगो वैराग्यकारणम् । कृतं वा क्षम्यतां कोपः, प्रणामान्तः सतां यतः ॥९३३॥ नाथौ ! कथं धरिष्यामि, जीवितव्यं युवां विना । क्षिप्रं नैष्ठुर्यमुत्सृज्याऽनुगृह्णीतं स्वकिङ्करीम् ॥९३४॥ 'मायाविन्या वचस्यस्याः, प्रत्येतव्यं न पेशलौ !' । इति शेलकवाक्येन, स्थिरौ चुक्षुभतुर्न तौ ॥ ९३५ ॥ अथो मुखेऽतिमधुरा, कालकूटोग्रहत् सुरी । प्राक्रंस्त भेदमुद्दामं, दम्भाद् भेदविशारदा ॥९३६॥ 'जिनरक्षित ! विश्वासभूरभूर्दोषसन्ततेः । भूरिप्रेमनिधिस्तोषप्रदस्त्वं मे सदाऽप्यभूः ॥९३७॥ त्वद्भ्रातृत्ववशाज्जाल्मोऽप्यसद्भूतहृदप्ययम् । मया सम्भाषयामासे, वृथैव निपालितः || ९३८॥ १. 'अस्थानभूत ! दोषराशेः' दोषरहित इति भावार्थः ।
।