________________
अविरतिपरिहारे जिनपालित-जिनरक्षितकथा
प्राप्तेऽथ समये यक्षः, प्रत्यक्षः स तथा ब्रुवन् । ताभ्यां विनम्रमूर्द्धभ्यां, सप्रश्रयमभाष्यत ॥९१७॥ 'आवां कारुण्यपाथोधे !, तूर्णं तारय पालय । त्वामेव जीवितोपायापेतौ यच्छरणं श्रितौ' ॥९१८॥ यक्षोऽगदद् 'युवां नेष्ये, परं पारं पयोनिधेः । किन्त्वेषा दुःसुरी ज्ञातवृत्ताऽन्वेष्यति सत्वरम् ॥९१९॥ वक्ष्यति स्नेहसाराणि वचांसि कपटे पटुः । स्नेहस्तस्यां तु पापायां, न विधेयो मनागपि ॥ ९२०॥ तस्यां हृदाऽपि रक्ष्येथे, द्रक्ष्यथस्तां दृशाऽपि वा । स्वपृष्ठतस्तदुत्क्षिप्य, क्षेप्स्यामि द्रुतमम्बुधौ ॥९२१॥ तस्या दुरात्मनो वाक्यैर्न भेतव्यं भयावहैः । मत्पृष्ठस्थौ युवां शक्रोऽप्यपकर्तुं न हि क्षमः ' ॥ ९२२ ॥ ओमिति प्रतिपेदानौ तौ तुरङ्गमरूपभृत् । यक्षः स्वपृष्ठमारोप्य, मध्येवारिधि चेलिवान् ॥ ९२३॥ कृत्वाऽथ सुस्थितादेशं, स्वसौधं द्रुतमागता । अवीक्ष्य तौ रत्नादेवी, विलुलोके वनत्रिके ॥९२४॥ तत्राप्यवीक्ष्य विज्ञायाऽवधिना तीव्रकोपभृत् । करेण निशितं खड्गं, धुन्वानाऽथो अधावत ॥ ९२५ ॥ निकटं प्राप्य चाऽवोचद्रे रे पापौ ! शठाशयौ ! |
।
स्नेहार्द्रा वञ्चयित्वा मां साम्प्रतं क्व नु यास्यथः ? ॥९२६॥
,
वलेथां प्रतिपद्येथां मामेव शरणं ततः ।
नो चेच्छिरो लविष्यामि, कृपाणेनाऽमुना क्षणात् ' ॥९२७॥
२११