________________
२१०
श्रीअजितप्रभुचरितम् सर्गः-२ काकन्दीनगरीवासी, भग्नपोतोऽहमम्बुधौ । दैवात् फलकमासाद्य, द्वीपमेतं समागमम् ॥९०७।। विरहस्याऽसहा पोषयन्ती वर्याऽशनादिभिः । भोगानभुक्त देव्येषा, क्रूरा सह मया चिरम् ॥९०८।। अन्येधुरागसो लेशं, कञ्चिलब्ध्वा क्षणादियम् । शूलायां मां निचिक्षेप, विलपन्तं कृपोज्झिता ॥९०९।। तदीदृशी दशा मन्ये, युवयोरपि भाविनी । एतन्निवर्त्तनोपायः, किन्त्वेकोऽस्ति महाशयौ !' ॥९१०।। ततः ससम्भ्रमं ताभ्यामवादि ‘करुणाम्बुधे ! । वदोपायं यथापायपारमावामवाप्नुवः' ॥९११॥ नरः प्राह 'समस्तीह, प्राचीनवननायकः । शेलकाख्यो महायक्षो, दयालुः सोऽश्वरूपभृत् ॥९१२॥ अष्टम्यां च चतुर्दश्यां, पौर्णमास्यमयोस्तथा । कं तारयामि ? कं पालयामीत्याह महाध्वनिः ॥९१३।। युग्मम् ॥ तमाराधयतं यत्नाद्यदि प्राणेतुमिच्छथः । अन्यः कश्चन नोपायो, विद्यते वाधिलङ्घने ॥९१४॥ नाऽऽराधि मयका गाय-मौग्ध्यादिवशगेन सः । अत्रार्थे कोविदौ ! कार्या, युवाभ्यां त्वप्रमत्तता' ॥९१५॥ श्रुत्वेति तौ द्रुतं पूर्ववनं प्राप्य जिजीविषू । स्नात्वा वाप्यां स्मिताब्जैस्तं, यक्षमानर्चतुस्तराम् ॥९१६॥