SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ अविरतिपरिहारे जिनपालित-जिनरक्षितकथा ततोऽद्राष्टां क्रमादेतौ देव्यादिष्टं वनत्रयम् । ऋतुभि: षड्भिरानन्ददायि स्फुरितकौतुकौ ॥८९७।। याम्यकाननसञ्चारमावयोर्निषिषेध किम् । रत्नादेवीति तौ यत्नात् प्रस्थितौ तद्दि [ दृ] क्षया ॥ ८९८ || विशन्तौ तद्वनं वेगात् पश्यन्तौ परितोऽपि तौ । अपीड्येतां भृशं विष्वग्, दुर्गन्धेन प्रसर्पता ॥ ८९९॥ पिधाय शिङ्खिनीं चेलाञ्चलेन च पुरो गतौ । करङ्कनिकरं भूमौ लुठितं वीक्ष्य बिभ्यतुः ॥ ९०० ॥ दध्यतुश्च किमाघातस्थानं प्रेतपतेरिदम् । अथवा सागराकृष्टनृशवक्षेपणास्पदम् ॥९०१॥ अमुष्या एव वा दुष्टाकूतायाः किञ्चनाऽप्यदः । सम्भाव्यतेऽतिगहनं, दुर्बोधं कूटनाटकम् ॥९०२॥ ध्यायन्ताविति तावग्रे, क्रन्दन्तं करुणस्वरम् । शूलाप्रोतं नरं कण्ठगतप्राणमपश्यताम् ॥९०३॥ अपृच्छतां च तं ‘भद्र !, तवेदृग् दुर्दशा कुत: ? । किं चेदं भीषणं स्थानं, लुठच्छवशताकुलम् ?' ॥९०४॥ सोऽपि तद्दर्शनाद् बाढं, दुःखितोऽवददाः ! कथम् । युवामपि नृशंसायास्तस्याः प्राप्तौ करान्तरम् ॥ ९०५ ॥ एषा हि राक्षसीदेश्या, भग्नपोतां नरावलीम् । भापयित्वा प्रियीकृत्य, दोषे स्वल्पेऽपि हन्ति हा ॥ ९०६ ॥ १. खर्परसमूहम्, 'खोपरी' इति भाषायाम् । २. वधस्थानम् । ३. राक्षसीतुल्या । २०९
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy