________________
२०८
श्रीअजितप्रभुचरितम् सर्गः-२ भोज्यैः सुधोपमैदिव्यैरलङ्कारैविलेपनैः । तयोपचरितौ चारु, तौ सुखं तत्र तस्थतुः ।।८८६।। अन्यदा स्माह सा ‘कान्तौ !, वास्तोष्पतिनिदेशतः । सुस्थितो लवणाम्भोधिनाथो मामेवमादिशत् ॥८८७।। अभवत् कश्मलोऽम्भोधिस्तृण्या-काष्ठ-शवादिभिः । तदेकविंशति वारान्, शोधनीयोऽयमादरात् ॥८८८।। प्रियौ ! मम लगिष्यन्ति, कतिचित् तत्र वासराः । स्थेयं भवद्भ्यां खेलद्भ्यां, सौधेऽमुष्मिन् मनोरमे ॥८८९।। कदाचिन्न रतिर्वां स्यात्, सौधे तत् पूर्वदिक्स्थितम् । श्रयणीयं वनं प्रावृट-शरद्भ्यां सुन्दरान्तर[म्] ॥८९०॥ तत्रापि चेतसः स्वास्थ्यं, यदि नाम न जृम्भते । उदीच्ये तद्वने गम्यं, हेमन्त-शिशिराश्रये ॥८९१।। तथाप्यरतिसम्पर्के, गन्तव्यं पश्चिमे वने । सम्मदं तत्र सुरभि-निदाघौ वां विधास्यतः ॥८९२।। वने तु दक्षिणे नैव, गम्यं यत्तत्र विद्यते । प्रवाह इव कालिन्द्याः, कृष्णसर्पोऽतिदारुणः ॥८९३।। यद्युद्धततया चैतदवमत्य हितं वचः । यास्यथस्तत्र तन्नाशं, प्राप्स्यथो दृग्विषात्ततः ॥८९४।। मृतौ च युवयोः प्राणप्रिययोर्मे मृतिधुंवा । यतः प्रभापतेरस्ते, प्रभा तिष्ठेत् कियच्चिरम्' ॥८९५॥ इति प्रपन्नशिक्षौ तावापृच्छयैषा सुरी द्रुतम् । स्वप्रभोः सुस्थितस्याज्ञां, निर्मातुं नभसाऽगमत् ॥८९६।।