________________
२०७
अविरतिपरिहारे जिनपालित-जिनरक्षितकथा दध्यतुश्च धिगावाभ्यां, तातस्यादेशमुज्ज्वलम् । अतियद्भयामियं लेभे, कीदृशी विषमा दशा ॥८७६।। क्व सा श्रीरावयोर्मन्दीकृतसुत्रामवैभवा । अप्रार्थिताऽऽगताऽकस्मादसकौ दुर्दशा क्व च ॥८७७॥ चिन्तयन्ति जना अन्यदन्यच्च स्याद्विधेर्वशात् । स्वपन्त्यन्यैर्हहा जाग्रत्यन्यैरेव मनोरथैः ॥८७८॥ सहित्वा तीव्रदुःखौघमर्जयन्ति श्रियं नराः । जहात्येकपदे सा तु, हन्त तान् विमुखे विधौ ॥८७९॥ अनयोायिनोरेवं, दुराचारा दुराशया । स्वामिनी तस्य द्वीपस्य, रत्नादेवीति विश्रुता ॥८८०॥ कम्पयन्ती करेणोच्चैः, करवालं सुदारुणम् । आयासीदवधिज्ञानपरिज्ञाततदागमा ॥८८१॥ युग्मम् ॥ ऊचे च 'रे ! युवां भोगान्, भोक्ष्येथे चेन्मया समम् । तहि प्राणिष्यथो नैवाऽन्यथा मम करौ गतौ' ॥८८२॥ अवोचतामिमौ कम्प्रशरीरौ 'देवि ! मा कुपः । तवाऽऽदेशकरावेव, यदावां किङ्कराविव' ॥८८३॥ ततः सा तोषभाक् साररत्नसम्भारनिर्मिते । तौ निनाय महासौधे, मनोनयनहारिणि ॥८८४॥ अशुभान् पुद्गलान् हृत्वा, शुभान्न्यास्थत्तदङ्गयोः । रेमे च निर्भरं नानाविलासैः सा प्रमोदभाक् ॥८८५॥
१. पु.प्रे. बहुलतया 'रत्नदेवी' इति पाठोऽस्ति, अग्रे ८९८ तमे श्लोके 'रत्नादेवी' इति पाठोऽस्ति । अस्माभिः सर्वत्र 'रत्नादेवी' इति नाम दर्शितम् ।