________________
२०६
श्रीअजितप्रभुचरितम् सर्गः-२ प्रतिषिद्धौ परं खेदं, धास्यतो मनसीति सः । श्रेष्ठिराट् सागरे गन्तुं, तनयावन्वमन्यत ॥८६५।। ततस्तौ मुदितौ पण्यैरगण्यैर्वहनं द्रुतम् । सम्पूर्याऽऽपृष्टस्वजनौ, प्रतस्थाते शुभेऽहनि ॥८६६।। अनेकानि सहस्राणि, योजनानां व्यलङ्घयत् । नुन्नं सुवायुना यानपात्रं तत् स्वल्पवासरैः ॥८६७।। अन्यदा वारिधिमध्ये, तडित्नाटकार भैरवः । घनाघनो घनं गर्जन्, भापयामास नौजनान् ॥८६८।। अध ऊद्धर्वं च नौर्नीयमाना चण्डनभस्वता । चकासामास दोलेव, कालरात्रेश्चलाचला ॥८६९।। कल्लोलैः परितः स्वेच्छाचारिभिः पवनोद्धरैः । तरी: सुरक्षिताऽप्येषा, नीता व्याकुलतां रयात् ॥८७०॥ अश्रान्तविगलद्वाष्पो, बाष्पानां व्याजतो जनः । त्रातुं स्वजीवितं वार्द्धः, सर्वस्वं प्रददाविव ॥८७१॥ चक्रन्दुः कातरास्तारस्वरं मरणभीभृतः । धीरा धर्मधनाः स्वेष्टदेवताः सस्मरुः पुनः ॥८७२।। क्वापि शैले समास्फल्य, जनानां सुकृतैः समम् । दुर्दैवोदयतोऽथैतद्यानपात्रमभिद्यत ॥८७३।। फलकं प्राप्य माकन्दीपुत्रावह्नि तृतीयके । क्षुधितौ तृषितौ रत्नद्वीपमासदतामिमौ ॥८७४।। तत्राऽऽरामेषु दिव्येषु, प्राप्तैः सुमधुरैः फलैः । जलैश्च स्वास्थ्यमासाद्य, क्वाप्यासीनौ तरोस्तले ॥८७५।।