________________
अविरतिपरिहारे जिनपालित-जिनरक्षितकथा
२०५
उत्साहसाहसावासौ, वारानेकादशाऽम्बुधौ । निर्विघ्नमेव तौ यात्राश्चक्राते सद्विधर्वशात् ॥८५४॥ अर्थतृष्णापराधीनावदीनौ तौ नदीपतौ । द्वादशीमप्यथो वेलां, यात्रां निर्मातुमीषतुः ॥८५५।। पितरं चोचतुर्युष्मत्प्रसादार्जितुं धनम् । आवां रत्नाकरं तूर्णं, भजिष्यावोऽभियोगतः ॥८५६।। सखेदं न्यगदच्छ्रेष्ठी, 'वत्सौ ! स्वच्छाशयाविदम् । युवाभ्यां न पुनर्वाच्यं, बाधाकृत् कर्णयोर्मम ॥८५७॥ भवद्भ्यामजितो द्रव्यसञ्चयश्चाऽतिपुष्कलः । प्राक्तनोऽप्यस्ति तल्लोभभूतः किं बाधतेऽधिकम् ? ॥८५८।। यात्रारम्भोऽम्बुधौ चन्द्र, इवाऽसौ द्वादशः खलु । अश्रेय:कारणमपि, वत्सौ ! जायेत कर्हिचित् ॥८५९॥ मातापित्रोः प्रमोदं तत्, कुर्वाणौ सततं सुतौ ! । कदाग्रहं पयोराशियात्राविषयमुज्झतम् ॥८६०॥ इहैव व्यवसायेन, गतापायेन यत्नतः । परिपूरयतं पुत्रौ !, द्रव्यार्जनमनोरथम्' ॥८६१।। ऊचतुस्तनयौ 'तात !, तव पादप्रसादतः । पूर्वेकादशयात्रावदत्राऽपि शिवमावयोः ॥८६२॥ यत्र तत्रापि च भवेद्भाव्यं भवभृतां खलु । साशङ्कानां तु रकानां, श्रियो न स्युः कदाचन ॥८६३।। आवां तदनुजानीहि, तात ! मा खेदमुद्वह । मनोरथतरुश्चित्तालवालस्थः स्तात् फलेग्रहिः' ॥८६४॥