SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २०४ श्री अजितप्रभुचरितम् सर्गः - २ अस्मिन् संसारकान्तारे, भ्राम्यद्भिः शश्वदङ्गिभिः । कृष्णचित्रकवत्कृच्छ्राल्लभ्यते मानवो भवः ||८४४|| तत्रापि दुर्लभो जैनो, धर्मोऽभीष्टफलप्रदः । अम्भोनिधौ यथा द्वीपो, मरौ सुरतरुर्यथा ॥ ८४५॥ धर्मे लब्धेऽपि कस्यापि कृतिनो लघुकर्मणः । जायेत सर्वविरतावीहा संसारदाहभित् ||८४६॥ लब्ध्वा च सर्वविरतिं, धन्याश्चिन्तामणीसमाम् । यत्नतः परिरक्षन्ति, काङ्क्षन्तोऽनुत्तरं सुखम् ||८४७|| ये तु स्वीकृत्य तां मूढा, अशुभवासना [ वशात् ] । भवन्त्यविरतेर्वश्या, न शस्यास्ते विपश्चिताम् ॥८४८॥ जिनपालितवत्त्याज्या दूरेणाऽविरतिः सदा । जिनरक्षितवन्नैव, स्वीकार्या कार्यसिद्धिहृत् ||८४९॥ तथाहि अङ्गदेशविभूषाकृदभङ्गसुकृतक्रमा । चम्पाख्याऽस्ति पुरी त्राता, जितशत्रुमहीभुजा ॥८५०॥ माकन्दीत्यभिधो द्युम्नमन्दीकृतधनेश्वरः । प्रसादपात्रं भूपस्य, श्रेष्ठी तत्र व्यराजत ॥८५१॥ भद्राकुक्षिभुवौ तस्याऽजायेतां तनयावुभौ । जिनपालित इत्येकोऽपरस्तु जिनरक्षितः ||८५२|| तौ मिथः स्निग्धहृदयौ, सम्प्राप्तौ मध्यमं वयः । पित्रोर्दृक्कैरवोल्लासं, चन्द्राविव वितेनतुः ||८५३ ||
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy