________________
विमलवाहननृपस्य प्रव्रज्याग्रहणम्
२०३
श्रितो नरशतोद्वाह्यां, शिबिकां छत्रशोभितः । चामरैर्वीजितः स्तूयमानो मङ्गलपाठकैः ॥८३४॥ पदे पदे प्रमोदेन, पौरीभिः कृतमङ्गलः । वर्ण्यमानगुणग्रामो, मुहुर्गन्धर्वपेटकैः ॥८३५।। विष्वग् मङ्गलतूर्येषु, वदत्सु कृतिनां वरः । राजमार्गेऽथ सोऽचालीदचलाचलमानसः ॥८३६॥ पञ्चभिः कुलकम् ॥ हहा वात्सल्यसदनं, विभुरस्मान् झटित्यपि । मुक्त्वा निर्ममतां बिभ्रद्, व्रजति व्रतकाङ्क्षया ॥८३७|| पुनर्भाग्येन केनाहो !, दृश्य इत्यनुवर्षिभिः । पृष्ठतः पार्श्वतोऽग्रे च, स्थितैः पौरैनिरीक्षितः ॥८३८।। प्राप्याऽनवद्यमुद्यानं, गुरुपादपवित्रितम् । उत्ततार चकोराक्षः, शिबिकाया धराधवः ॥८३९।। त्रिभिर्विशेषकम् ॥ प्रविश्य पादचारेण, त[दु]द्यानं महोद्यमः । देहादुत्तारिताऽशेषभूषो भवविरक्तधीः ॥८४०।। गुरुदत्तं धरन् साधुवेषं हर्षप्रकर्षभृत् । पञ्चमुष्टयुद्धृतकचः, प्रपञ्चौघपराङ्मुखः ॥८४१।। तत्त्वविद्भिर्मुहुः श्लाघ्यमानसत्त्वगुणोदयः । सर्वसावद्ययोगानां, प्रत्याख्यानं ततो व्यधात् ॥८४२।। विशेषकम् ॥ प्रदक्षिणात्रयं दत्त्वा, वन्दित्वा विनयानतम् । पुरःस्थितमथो राजऋषि तमशिषद् गुरुः ॥८४३।। १. 'चकार' इति पु. प्रे।