________________
२०२
श्रीअजितप्रभुचरितम् सर्ग:-२
धृतदिव्यांशुकः स्फारालङ्का[रा]ढ्यः स नव्यराट् । पित्राऽथ शिक्षयामासे, गिरा माधुर्यसारया ॥८२३।। 'वत्स ! त्वया न मोक्तव्यो, नयाध्वा पूर्वजाश्रितः । अनये हि प्रवृत्तानामयः स्यात् सविधे कुतः ? ॥८२४।। शिष्टात्मानः प्रयत्नेन, माननीया मनीषिणा । दुष्टात्मानस्तु निग्राह्या, नीतेस्तत्त्वमिदं परम् ॥८२५।। पूर्या मनोरथाः शश्वन्निजानामनुजीविनाम् । न हि स्वार्थं विना कोऽपि, वरिवस्यति नायकम् ॥८२६।। स्त्रीषु श्रीषु च विश्वासो, न विधेयः कदाचन । इहाऽमुत्र च दुःखौघप्रदा ह्येताः शरीरिणाम् ।।८२७।। सप्तदुर्गतिभीतेन, सदा व्यसनसप्तकम् । मोक्तव्यं व्यक्तदोषौघमघसङ्घातकारणम् ।।८२८।। मदो गुणद्रुमारामदावाग्निरिति चेतसि । बुद्ध्वा तं रूपसाम्राज्यविषयं सर्वथा त्यजेः ॥८२९।। त्रिवर्गं शुभसंसर्गमिच्छु: स्वच्छमते ! सदा । यथाकालं भजेर्बाधामतन्वानः परस्परम्' ॥८३०।। अनुशिष्येति दीक्षायामुत्को विमलवाहनः । उत्थितो नवभूपेन, विनीतेनाऽन्वगम्यत ॥८३१।। सुगन्धवारिभिः स्नातः, शुभश्चन्दनचर्चया । संवीतदिव्यवसनो, धृतसर्वाङ्गभूषणः ॥८३२॥ मोचिताखिलकारास्थसत्त्वः सत्त्वमहोदधिः । चैत्येष्वर्चितसर्वज्ञप्रतिमोऽप्रतिमो गुणैः ॥८३३॥