________________
२०१
कुमारस्य राज्याभिषेकः तत्तातपादा अत्रार्थे, मा दिक्षन्मामतः परम् । प्रायश्चित्तं चरिष्यामि, गुर्वाज्ञालङ्घनैनसि' ॥८१२॥ स्वाज्ञालोपि स्फुरत्सत्त्वं, सूनोस्तद्वचनं नृपः । समाकर्ण्य विषण्णश्च, प्रसन्नश्चेत्थमूचिवान् ॥८१३॥ 'वत्स ! त्वमसि मेधावी, विवेककलितोऽपि च । किं भाषसे स्नेहमूलादज्ञानादविचारितम् ? ॥८१४।। यदा च त्वय्यनाशृण्वत्यपि विश्वम्भरामहम् । मोक्षैककामो मोक्ष्यामि, कुमार ! स्फारसद्गुण ! ॥८१५।। तदाऽप्यस्वामिकामेनां, धर्ता शुद्धमते ! भवान् । भवितैनोऽधिकं पूज्यादेशातिक्रमतश्च ते ॥८१६।। मा धा विमर्शक्लेशेन, विधुरं तन्निजं मनः । भक्तिप्राग्भारभाक्कक्षीकुरु मद्वचनं द्रुतम्' ॥८१७।। मन्त्रिणोऽप्येवमाहुः स्म, 'कुमार ! भवताऽखिलम् । युक्तमेव न्यगादीदं, धिषणोपमधीजुषा ।।८१८।। परं यदादिशन्ति त्वां, देवपादाः कुरुष्व तत् । सुपुत्राणां ह्यनुल्लङ्घ्यं, सर्वदाऽपि पितुर्वचः' ॥८१९।। अथो कथञ्चनाऽप्योमित्युक्तवान् गद्गदस्वरम् । कुमारोऽध्यास्यत प्रीत्याऽभिषेकासनि भूभुजा ॥८२०॥ मङ्गलातोद्यमालाया, निनदे दिक्प्रसर्पिणि । स्वयं भूपोऽभ्यषिञ्चत्तं, पावनैस्तीर्थवारिभिः ॥८२१।। परेऽपि वसुधाधीशा, अभिषिच्य [स]सम्मदम् । पञ्चाङ्गस्पृष्टभूपीठास्तं नेमुरतिभक्तितः ॥८२२।।