SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २०० श्रीअजितप्रभुचरितम् सर्गः -२ दीक्षां मोक्षफलां कामं, गृह्णातु स्वेच्छया विभुः । भुवमेतां कुमारोऽपि, शास्तु शस्तगुणोच्चयः ' ॥ ८०१ || ततो नृपेण तुष्टेनाऽऽह्वायितो वेत्रधारिणा । सत्वरं समुपेयाय, कुमारो हरिवाहनः ||८०२ || प्रणम्य पत्तिवत् स्फारविनयो नयभासुरः । निषण्णश्च यथास्थानं, राज्ञा सानन्दमौच्यत ||८०३ || 'वत्स ! स्वच्छमते ! भूपा, अस्मद्वंश्या अगृध्नवः । भुवं पात्वा क्षमीभूतेष्वङ्गजेषु न्यवेशयन् ॥८०४|| स्वयं तु नश्वरं मत्वा, विश्वं विश्वं मनीषिण: । अनश्वराऽनन्तसुखेच्छया चक्रुरुपक्रमम् ||८०५|| मद्वत् कालमियन्तं तु, गार्हस्थ्यं कोऽपि नाऽन्वभूत् । प्रमादनिद्रया सुप्तश्चिराज्जागरितोऽस्म्यहम् ||८०६॥ अस्माभिः सुचिरं भूमिभारमूढं वहोद्वह ! । वयं संयमभारं तु, साम्प्रतं स्मो विवक्षवः ॥ ८०७॥ पितुर्गिरमिति श्रुत्वा, हिमाहतसरोजवत् । म्लानाननो बाष्पपूर्णदृक् कुमारोऽभ्यधादथ ||८०८॥ 'मया मन्तुर्महा [न्] कश्चिद्विदधे [म]न्दमेधसा । अथवा प्रापदुदयमभाग्यमुरु किञ्चन ॥८०९॥ पदातिपरमाणौ [यत्], यः प्रसादपरो मयि । त्यागाकूतमकाण्डेऽपि प्रभुराविरभावयत् ॥ ८१०॥ किमृद्धेनाऽपि राज्येन, तातपादैर्विना मम । किं पूर्णेनाऽपि नलिनहीनेन सरसाऽलिनः ? ॥११॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy