SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ मन्त्रिभिः सह परामर्शः हठाद्राज्यानि भूपानां, सदाप्याऽऽछिन्दतो मम । अदत्ता[दा]नमेवाऽभूदाजन्म च्छद्मसद्मनः ॥७९१॥ सुरनारीरूपगर्वहारिणीर्हरिणीदृश: । रसेन रसयन्नन्वतिष्ठमब्रह्म चान्वहम् ॥७९२ ॥ वारिणा वारिधिरिव, दारुणा दंमुना इव । जातु श्रिया न तृप्तोऽहं दृप्तारिमहिषध्वजः ॥७९३|| हिंसादयोऽमी पञ्चाऽपि, दुर्गदुर्गतिहेतवः । अज्ञानादेवाऽसेव्यन्ताऽविरतेन चिरं मया ॥ ७९४॥ अथाऽहं सर्वविरतिं, प्रपित्सुर्जातचेतनः । निधास्यामि कुमारेऽदो, राज्यं प्राज्यर्द्धिभासुरम् ॥७९५।। सेव्यो मद्वत् कुमारोऽयमुदारचरितोज्ज्वलः । प्रकृत्या विबुधानां वः, शिक्षां दत्त्वाऽथवा खलु ॥७९६॥ मन्त्रिणः स्माहुरुर्वीश !, पूर्वजैर्दर्शितेऽध्वनि । साधु सञ्चरसि प्रत्यासन्न सिद्धिपदोऽसि तत् ॥७९७|| देवो बभार भूभारं, विक्रमाच्छक्रसन्निभः । अस्माभिस्तत्र शोभैवाऽभूद्रम्भास्तम्भवद् गृहे ॥७९८॥ साम्राज्यं तदिदं देवः, परिपाल्य नयाध्वना । जिघृक्षति परिव्रज्यां, नेयं काचिदनौचिती ॥ ७९९ ॥ शस्त्र-शास्त्रप्रवीणोऽसौ, कुमारो मारसुन्दरः । क्षमाभारं समुद्वोढुं, क्षम एव महोक्षवत् ॥८००|| १. अग्निः । १९९
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy