________________
१९८
श्रीअजितप्रभुचरितम् सर्गः-२ स्थिता एव वयं राजंस्त्वन्मनीषितसिद्धये । भूमौ चरामो हि वयं, भव्यानु[प]चिकीर्षवः' ॥७८१॥ इति क्षमापतेर्वाचं, समाकर्ण्य क्षमापतिः । नत्वोत्थायाऽविशत्तीव्रसंवेगो नगरान्तरम् ॥७८२॥ अलङ्कृतासनो मन्त्रिपुङ्गवानथ वेगतः । आहूय पुरुहूतश्रीः, ससन्मानमवोचत ॥७८३॥ 'पारम्पर्याद्यथा स्मोऽस्मिन्, मन्दिरे पार्थिवा वय[म्] । तथा यूयं राज्यभारधौरेया मन्त्रिसत्तमाः ॥७८४॥ मेदिनीसाधने युष्मच्छेमुषी हेतुरग्रिमः । गौणस्त्वस्मद्भुजोद्भूतविक्रमः समजायत ॥७८५।। युष्माभिरेव भूमीयं, दधे धीनिधिभिः सदा । अहं तु वि[ष]यासक्त, एवाऽतिष्ठं प्रमद्वरः ॥७८६।। अभुत्सि पुनरद्याऽमुं, प्रमादं गुरुवाक्यतः । स्थेयसौख्यपयोराशिलोपामुद्रापतिप्रभम् ॥७८७।। अदान्तकरणग्रामः, कषायकलुषाशयः । इयच्चिरं मुधाऽऽत्मानमज्ञानात् खल्ववञ्चयम् ॥७८८॥ मया साधयता भूमिपीठं प्रत्यर्थिपार्थिवाः । दुर्मदा निजदोर्वीर्याऽनले निघ्नीकृताः कति ॥७८९।। प्रयुञ्जानेन षाड्गुण्यमतन्यत वचः कियत् । असत्यं नित्यमेवोच्चैर्न हि स्वहितवजिना ॥७९०॥
१. स्थिरसुखसागराऽगस्तितुल्यम् ।