________________
१९६
श्रीअजितप्रभुचरितम् सर्गः-२
देवान् गुरूंस्तदितरान्न विचिन्त]न्ति बालिशाः । गुरूपदिष्टं शृण्वन्ति, हितमप्येडवन्न च ॥७५९॥ कोऽहं ? युक्तमयुक्तं वा, किं ममेति स्वमप्यहो ! । न जानते न तन्वन्ति, गुर्वादेविनयौचितीम् ॥७६०।। नाऽऽलपन्ति परं मूकवच्च बाढं पदे पदे । स्खलन्त्येव न बुध्यन्ते, कृता उपकृताः परैः ।।७६१।। तत्र तीव्रविषावेगान्निश्चेष्टत्वं च काष्ठवत् । ये प्राप्तास्तान् विबुध्यस्व, जीवानेकेन्द्रियान्नृप ! ॥७६२॥ पृथ्व्यां लोलन्ति चाव्यक्तं, रसन्तो विकलेन्द्रियाः । शून्यहत्त्वेन चेष्टन्तेऽङ्गिनः पुनरसञ्जिनः ॥७६३।। दाहादिकं महादुःखं, लभन्ते नारकाङ्गिनः । दष्टास्ते यदसाताख्यसर्पडिम्भेन निर्भरम् ॥७६४।। एवं यथोचितं दंशनानात्वं विविधाङ्गिषु । विचारयेर्यतो मोहसर्पो बहुपरिच्छदः ॥७६५।। अव्यक्तं विरसन्त्युच्चैः, करभाद्या नरेश्वर ! । नृणां नु धर्माः स्खलन-पतनाद्या उदीरिताः ॥७६६।। ते च जाग्रति सम्प्राप्ता, विरतिं विषलाघवात् । भूयश्च शेरते त्यक्त्वा, विरतिं विषवेगतः ॥७६७॥ देवाः स्वपन्त्यविरतिनिद्रयाऽनारतं पुनः । एवं मोहाहिविषतः, सर्वे जीवा विसंस्थुलाः ॥७६८।। तत्र गारुडिकस्तीर्थकरो यतिजनोचिताम् । क्रियां दिशन् मोहविषं, हन्तुमेकोऽपि शक्तिमान् ॥७६९।।