SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ १९५ गुरुणा स्वीयवृत्तान्तस्वरूपा कथिताऽन्तरङ्गघटना न ह्यमीषां मुनीनां गीः, प्रकृतानामिव स्फुरेत् । तदन्तरङ्गभावार्थमस्या राजन् ! शृणु ब्रुवे ॥७५०॥ भवानां नरकादीनामावर्त्त इह यत्नतः । संसारोऽयं भवावर्तपुरमौच्यत साधुना ॥७५१॥ सर्वेषां जनकः कालपरिणत्या समन्वितः । यतः कर्मपरीणामः, सोदरास्तत् समेऽङ्गिनः ॥७५२।। अनन्तास्ते च सर्वेऽपि, वसन्तोऽत्र पुरेऽहिना । दष्टा एकेन येनाऽहो !, तं व्याचक्षे शृणु प्रधीः ! ॥७५३।। मदाष्टकस्फुटो लेश्यालसज्जिह्वः सदारुणः । कुवासनाकृष्णदेहो, रागद्वेषोग्रलोचनः ॥७५४॥ माया-गृद्धिलसद्दाढः, छैन्महाविषकण्टकः । नोकषायोत्क[र]रदो, ज्ञानावृत्यादिडिम्भयुक् ॥७५५।। मिथ्यात्वघोरहृदयः, कृतचित्तबिलस्थितिः । जगद्दशति निःशेषं, मोहो विषधरो महान् ॥७५६।। विशेषकम् ॥ तेन दष्टाश्च मूर्छाला, इव नात्महितं विदुः । मीलयन्ति दृशोऽलीकसौख्यानुभवगर्वतः ॥७५७।। धार्यन्ते सेवकैश्चैते, श्लथाङ्गाः सादरं करैः । भक्ष्याऽभक्ष्य-पेयाऽपेयविभागमपि नो विदुः ॥७५८॥ १. 'कोपमहाविषकण्टकविकरालो' इति धर्मरत्नप्रकरणे १९ तमश्लोकवृत्तौ पुरन्दरकथायाम् । 'कोवमहाविषकंठयवियरालो' इति पुष्पमालायां १० तमश्लोकवृत्तौ सर्पगारुडिकघटनायाम् । २. 'नो युषयोत्करदो' इति पु.प्रे. । 'नवनोकसायदसणो' इति पुष्पमालायां १० तमश्लोकवृत्तौ ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy