________________
१९४
श्रीअजितप्रभुचरितम् सर्गः-२ इतरे तु प्रतिघ्नन्ति, नानाक्लृप्तकुयुक्तिभिः । अन्ये लकुट-लेष्ट्वाद्यैस्तस्मिन् ही [प्र] हरन्त्यपि ॥७३९।। श्रद्दधाना अपि परे, न भजन्ति प्रमादतः । श्रद्धालवो महाभागा, अनुतिष्ठन्ति कत्यपि ॥७४०॥ राजंस्ततोऽहमप्येष, हन्तुं तां विषवेदनाम् । श्रित्वा तद्वाचमभ[ज]ममुं वेषं तदर्पितम् ॥७४१॥ एतां महाक्रियां चापि, तद्वाचैवाऽऽयतौ हिताम् । दुष्करामपि भूमीश !, प्रतिपन्नोऽस्मि यत्नतः' ॥७४२॥ एवमुक्त्वा स्थिते साधौ, परं विस्मयमुद्वहन् । भूपो विमलबुद्धिं स्वं, मन्त्रिपुङ्गवमूचिवान् ॥७४३॥ 'अहो ! न जातुचिद् दक्षमुख्याः साधव ईदृशाः । असम्बद्धं प्रजल्पन्ति, प्रतारणविवर्जिताः ॥७४४॥ इदं चाऽसम्बद्धमिवाऽऽभाति मे मानसेऽखिलम् । तथाहि चेद्भवावर्त, पुरं तादृग् महत्त्वभाक् ॥७४५॥ तत्सोदर्यैः कथं कृत्स्नमपि हन्त व[स]त्यदः ? । कथं चैकेन सर्पण, दष्टस्तावान् जनोऽखिलः ? ॥७४६।। एको महागारुडिको, लोकस्यैतावतः कथम् । आरोग्यकरणं चापि, तूर्णमभ्युपगच्छति ? ॥७४७।। कथं च विधिरीदृक्षो, विषनिर्घातने मतः ? । अहो ! [हि] महती कापि, गिरां दुरवबोधता' ॥७४८॥ मन्त्री स्मित्वा ततोऽवोचद्देवाऽमुष्य महामुनेः । लोकोत्तरमिदं विद्धि, वचो भवविरागकृत् ॥७४९॥ १. 'अण्णे लिठ्ठलउडाइएहिं पहरंति' इति पुष्पमालायां १० तमस्य श्लोकस्य वृत्तौ ।