________________
१९२
श्रीअजितप्रभुचरितम् सर्गः-२ परे त्वव्यक्तनिनदैविरसैरारसन्त्यहो ! ।। अशक्ता जातुचिद् व्यक्तैर्वचनैर्हन्त भाषितुम् ॥७१७।। अन्ये क्वचित् स्खलन्त्युच्चैः, प्रपतन्तितमा क्वचित् । मुहुः क्वचन मूर्च्छन्ति, शेरते निर्भरं क्वचित् ॥७१८॥ क्षणं जाग्रति भूयोऽपि, भूयोऽपि बहु शेरते । अपरे शेरते नित्यं, न तु जाग्रति जातुचित् ।।७१९।। विषवेदनया चैवमभिभूते पुरेऽखिले । एको महागारुडिकः, प्राप्तः शिष्यावलीवृतः ॥७२०॥ तत्पुरं तादृशं दृष्ट्वा, सञ्जातकरुणश्च सः । सर्वाल्लौंकानभाषिष्ट, वाचा पीयूषकल्पया ॥७२१॥ 'भो भो ! अस्या विषोत्थाया, वेदनायाः क्षणेन वः । मोचयामि क्रियां गुर्वी, मन्नि[दि]ष्टां विधत्थ चेत्' ॥७२२॥ तेऽवोचन् ‘सा क्रिया कीदृक् ?', प्रोचे गारुडिकोऽप्यथ । 'यादृक्षो मम शिष्याणां, वेषो धार्यो हि तादृशः ॥७२३॥ स्वप्राणान्तेऽपि यत्नेन, रक्ष्याः सर्वेऽपि जन्तवः । सत्यमेव च वक्तव्यमपि कण्ठगतासुभिः ॥७२४॥ दत्तमेव ग्रहीतव्यं, धर्त्तव्यं ब्रह्म निर्मलम् । स्वदेहेऽपि ममत्वं न, कार्यं भोज्यं च नो निशि ॥७२५॥ वस्तव्यं च श्मशाना-ऽद्रि-काननेषु भयोज्झितैः । स्वप्यं भुवि विभूषायां, वर्तितव्यं न जातुचित् ।।७२६॥ भोगस्त्याज्यो विकृतीनामवमोदरतायुतैः । रूक्षवृत्त्या नु स्थातव्यं, प्रणीतात्यशनोज्झिभिः ॥७२७॥