________________
गुरुणा स्वीयवृत्तान्तस्वरूपा कथिताऽन्तरङ्गघटना समस्त्यतीवविस्तीर्णमनन्तजनसङ्कुलम् । पुरं नाम्ना भवावर्त, विविधाद्भुतपूरितम् ॥७०७।। अहं कौटुम्बिकस्तत्राऽभूवं राजन् ! महद्धिकः । सर्वं ममैव सोदर्यैर्वसति स्म पुरं च तत् ॥७०८॥ अन्यदा च वयं सर्वेऽप्येकेन महताऽहिना । कालिन्दीजलकालेन, दष्टास्तीवविषाशिषा ॥७०९॥ ते सर्वेऽप्यथ मूर्च्छन्ति, मीलयन्तितरां दृशः । शिथिलाङ्गा भवन्त्युच्चैः, कार्याकार्यं न जानते ॥७१०॥ मुह्यन्ति गुरुदेवेषु, न शृण्वन्ति हिता गिरः । स्वं न जानन्ति तन्वन्ति, प्रतिपत्तिं च नोचिताम् ॥७११।। नाऽऽलपन्ति प्रणयिनः, पदन्यासे स्खलन्ति च । परैः कृतानुपचारान्न विदन्ति मनागपि ॥७१२॥ तदा केचिच्च तस्योग्रगर[ल]स्यानुभावतः । अत्यन्तं काष्ठवच्चेष्टाशून्यत्वमलभन्त धिक् ॥७१३॥ अव्यक्तध्वनयश्चान्ये, पृथ्व्यां लोलन्ति सर्वतः । अपरे शून्यहृदयाश्चेष्टन्ते निष्फलं पुनः ॥७१४॥ [इ]तरेषां पुनस्तीव्रविषदाहाऽभिभूतितः । अङ्गानि विदलन्त्युच्चैर्लोचनानि स्फुटन्ति च ॥७१५॥ किं बहूक्त्या ? महादुःखव्यथितानामनारतम् । दृग्निमीलनमात्रस्याऽप्येषां सौख्यस्य नोदयः ॥७१६।।
१. तीव्रविषम् आशिषि-दंष्ट्रायां यस्य सः = तीव्रविषाशीस्तेन, 'दंष्ट्राऽऽशीः' (अभि. चिन्ता. श्लो. १३१५)।