SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ १९० श्रीअजितप्रभुचरितम् सर्गः - २ देहो वै परिकर्मभिर्बहुविधैः, स्थेयान् भवे नो भवेदातङ्काः कफमयु-वायुजनिताः, क्षिण्वन्त्यमुं सन्ततम् । नामुत्र प्रचुरोपकारकमपि, क्षेत्रज्ञमन्वेत्यसौ तस्मात्तीव्रतरैस्तपोभिरमुतः, श्रेयो बुधां गृह्णते ॥ ६९८॥ [शार्दूलविक्रीडितवृत्तम्] देहलालनवैफल्ये शशिप्रभदृष्टान्तः । ग्रं. ६१ अ. १२ श्रीपतेः कीर्त्तिचन्द्राख्यनृपतेरगडस्य च । मधुबिन्दोः शशिनश्च दृष्टान्तैः स्फुटतां गतम् ॥६९९॥ वैरस्यमिन्दिरा-बन्धु- वधू-विषय-वर्ष्मणाम् । विज्ञाय मोहमुज्झाऽऽशु, राजन् ! विमलवाहन ! || ७००|| युग्मम्|| श्रुत्वेत्यरिन्दमगुरोर्देशनामवनीविभुः । पीतपीयूषगण्डूष, इवाऽधान्निर्वृतिं पराम् ॥७०१॥ राज्ञो दुष्टमहामोहप्रत्यनीकं जिघांसतः । वैराग्यास्त्रं गुरुवचःशाणेनाऽऽप निशातताम् ॥७०२॥ ततो विनयनम्राङ्गो, नत्वाऽवादीन्नृपो वचः । हृदावालस्थतत्त्वद्रुसुमसौरभसन्निभम् ॥७०३॥ 'संसारसागरममुं, जन्ममृत्युजलाकुलम् । विविधाऽऽमयदुर्यादोदारुणं वीक्षते जनः ॥ ७०४ || तथापि नैवोद्विजते, लोलुपः क्षणिके सुखे । तत्तारुण्येऽपि वो ब्रूत, किं निमित्तं व्रतादृतौ ?' ॥७०५।। - मुनिर्जजल्प 'पृथ्वीश !, सावधानमनाः शृणु । निवेदयाम्यमूदृक्षकष्टानुष्ठानकारणम् ॥७०६ ॥ १. पित्तम् । २. आत्मानम् । ३. विरसत्वम् ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy