SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ देहलालनवैफल्ये शशिप्रभकथा न च देहार्दनामात्रं, तपः प्रोक्तं महर्षिभिः । एवं ह्यापद्यते नारकाणामपि तपस्विता ॥ ६८९ ॥ प्रसज्यते चाऽविरतिरर्हच्छ्रीभोगतोऽर्हताम् । तपसस्तन्न सर्वज्ञैर्भणिता दुःखरूपता ||६९०॥ किञ्च रत्नत्रयात्मकं भावे, क्षायोपशमिके तपः । साता-सातात्मिका द्वेधा, वेदनौदयिके पुनः ||६९१|| तस्मान्न वेदना विज्ञैस्तपस्त्वेन निगद्यते । किन्तु कर्मक्षतेर्हेतुः, संवरः प्रशमोत्तरः ||६९२ || तन्निमित्तं च सद्ब्रह्म- लोच- षष्ठाऽष्टमादिकम् । सर्वं बाह्यं तपः प्रोक्तं, न वपुर्यातनाकृते ॥ ६९३॥ विचेतनाय देहाय मा स्म कुप्यस्ततोऽधुना । कुप्य त्वं बन्धहेतुभ्यो ददयो दुःखसन्ततिम् ॥६९४॥ कर्माण्यादत्ते मिथ्यात्वा ऽविरतिभ्यां निरन्तरम् । प्रमादेन कषायैश्च, योगैश्चापि शरीरवान्' ||६९५।। इत्थं शशिप्रभं देवोऽनुशिष्य स्वतपोर्जिताम् । दिवं गत्वा महासौख्यान्यभुक्त प्रभुतानिधिः ||६९६॥ वृत्तं शशिप्रभस्येदं, देहपोषणदूषकम् । निशम्य शमशालीनाः, कुरुध्वं हितमात्मनः ॥६९७|| १८९ १. 'अओ पसमाइगब्भो संवरो पहाणो कम्मक्खयहेऊ' इति उपदेशमालायां २५५ श्लोकस्य टीकायाम् ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy