________________
१८८
श्रीअजितप्रभुचरितम् सर्गः - २
सदाऽप्यतृप्तो भोगानां योगनामाऽप्यसंस्तुवन् । कालधर्मं गतः प्राप, तृतीयां नरकावनम् ॥६७९॥ सूरदेवोऽपि सोदर्ये, प्रतिबन्धं परं वहन् । तद्बोधाय द्रुतं श्वभ्रमध्यमागात् त्रिविष्टपात् ॥ ६८०॥ ज्ञापयित्वा तं चात्मानमस्मै धर्म्यं वचोऽवदत् । 'भ्रातर्मया प्रणुन्नोऽपि, भोगेषु त्वमगृध्यथाः ||६८१|| यद्देहस्य कृतघ्नस्य, लालनामकरोर्मुधा । ईदृक्षे दुस्तरेऽनेन, महादुःखार्णवेऽपतः' ॥६८२॥ तन्निशम्य विभङ्गेन, विदन् स्वं प्राच्यजन्म तत् । दुःसहाभिरनन्ताभिरर्दि [तो] नरकार्त्तिभिः ||६८३ || भ्रातुस्तां वैर्बुधीमृद्धि, पश्यन् गाढानुतापभाक् । द्विषन्नात्मवपुः सूरं, शशीति प्रत्यवोचत || ६८४॥ युग्मम् ॥ 'भ्रातर्मय्यनुकम्पस्व, याहि सद्यो मयोज्झितम् । तद्वपुः कण्टकैः क्षारै:, कशाभिर्भृशमर्द्दय ॥ ६८५ ॥
तद्बाधाभीरुणा पूर्वं, न चक्रे मयका तपः । प्रोद्भावयाऽधुनाऽप्याशु, तद्वपुः पीडनात्तपः ' ॥६८६॥ देव: सूरप्रभोऽवादीच्छरीरे चेतनोज्झिते । कदर्थितेऽपि को नाम, गुणो मन्दमतेऽधुना ॥ ६८७।। अयातयिष्यश्चेद्देहं, तपोभिर्विविधैः पुरा । नाऽलप्स्यथास्तदीदृक्षनरकोद्भववेदनाः ||६८८ ||
१. दैवीम् ।