________________
देहलालनवैफल्ये शशिप्रभकथा
१८७
सूरप्रभः पुनर्गाढतरं संवेगमुद्वहन् । द्रुतं प्रव्रज्य निर्व्याजं, तपस्तेपे सुदुस्तपम् ॥६६८॥ देहेऽपि निर्ममः शीता-ऽऽतपादिसहनोद्यतः । असौ नाऽजगणत् कष्टं, भवकष्टानि भावयन् ॥६६९।। काले गृहीतानशनश्चतुःशरणमाश्रितः । विपद्य द्युतिमान् ब्रह्मकल्पेऽभूनिर्जरोत्तमः ॥६७०॥ शशिप्रभः पुनर्भोगेषूद्वहन् गृद्धिमुल्वणाम् । यद्यदङ्गस्य सौख्याय, सिषेवे तत्तदुद्यमात् ॥६७१।। दुष्प्रापा हि मया भोगा, अमी पुनरिति स्मरन् । भृशमासक्तिमेतेषु, तेने स धरणीधवः ॥६७२॥ हंसरोमावलिमयीं, तूलिकां श्रितवान् रसात् । शिरीषसुकुमाराङ्गीराश्लिक्षत् सुन्दरीरसौ ॥६७३॥ सारैर्भोज्यैः सुधातुल्यैः, पेयैर्देहस्य निर्वृतिम् । शश्वच्चकार भूभर्ता, धर्मकर्मपराङ्मुखः ॥६७४॥ कर्पूरा-ऽगरु-कस्तूरी-चन्दनैः कुसुमैरपि । सौरभं बिभरामास, शरीरे राट् शशिप्रभः ॥६७५॥ नाट्येषु चित्रशालासु, लीलासु च मृगीदृशाम् । अन्येष्वपि च दृश्येषु, स्वीचक्रेऽसौ दृशोः फलम् ॥६७६।। कामिनीभिः सकामाभिः, सोत्कण्ठं कृतचाटुभिः । गीतैर्वाद्यैश्च श्रवसोः, शशी साफल्यमानशे ॥६७७|| एवं विविधभङ्गीभिर्भुञ्जानो विषयानसौ । कृतार्थं मानुषं जन्म, मेने मोहवशङ्गतः ॥६७८॥