________________
१८६
श्रीअजितप्रभुचरितम् सर्गः-२
तद्वद्राज्यमिदं लक्ष्मीमिमां लोलेक्षणा इमाः । सर्वं दृष्टमदृष्टार्थे, त्यक्त्वा बाढं तमिष्यसि ॥६५८।। असन्दिग्धाः श्रियः प्राप्ताः, परित्यज्य सचेतनः । को हि सन्दिग्धलाभासु, तासु धत्ते महोद्यमम् ?' ॥६५९।। सूरप्रभः प्रत्युवाच, 'मेदं गादीः सहोदर !। सर्वज्ञोपज्ञधर्मो न, व्यभिचारी फलं [ प्रति] ॥६६०|| जितरागद्वेषमोहा, निर्निमित्तोपकारिणः । नान्यथावादिनः सर्वविदः क्वापीति निश्चिनु ॥६६१॥ त्रसरेणूपमं सौख्यं, किञ्चेदं बहु मन्यसे । न मन्यसे पुनः प्रान्ते, पर्वतोपमदुःखदम् ॥६६२॥ य एव सुन्दरा भावा, वीक्ष्यन्ते वपुरादयः । काले त एव बीभत्सा, भवेयुर्दुविधेर्वशात् ॥६६३।। तत्तेषु हृदयालूनां, प्रतिबन्धो न युज्यते । कूटकार्षापणे नैव, रज्यन्ते] सुपरीक्षकाः ॥६६४॥ सर्वाद्धासम्भवं देवसौख्यमेकत्र पिण्डितम् । अनन्तगुणितं चापि, नाप्नुयाद्यत् सुखोपमाम् ॥६६५।। तत्र मुक्तिसुखे जैनप्रव्रज्याकष्टलेशतः । सुप्रापे किं प्रमाद्यन्ति, प्रबुद्धज्ञानलोचनाः ?' ॥६६६।। युग्मम् ॥ इत्यादि बहुधाऽप्युक्तो, न शशी प्रत्यबुध्यत । नैवाप्यते शुभं यस्माद्दुष्कर्मोदयसङ्गतैः ॥६६७॥ १. सर्वकालसम्भवम् । 'अद्धा' अयं कालवाची देश्यशब्दः ।