________________
१८५
देहलालनवैफल्ये शशिप्रभकथा भूपतेस्तस्य तनुजौ, शशि-सूरप्रभाभिधौ । पौरुषाक्रान्तजगतीचक्रौ पालयतः प्रजाः ॥६४७॥ आगात्तत्र चतुर्ज्ञानी, भव्यकैरवचन्द्रमाः । मुनिर्विजयघोषाख्यः, पारदृश्वा श्रुताम्बुधेः ॥६४८।। नन्तुमेनं मुनि पौरा, अहम्पूर्विकया ययुः । कलयेदलसत्वं को, भाग्यलभ्ये हि वस्तुनि ? ॥६४९॥ शशि-सूरावपि प्राप्तौ, नत्वा तं मुनिपुङ्गवम् । यथास्थानं न्यषदतामापातुं देशनामृतम् ॥६५०॥ त्रिजगद्गुरुणाऽऽदिष्टमाचष्ट स्पष्टमेव सः । मुनिर्धर्मं दयामूलं, शूलं मोहरिपोर्भिदे ॥६५१।। लघुकर्मा लघुः सूरो, बोधं लेभे गुरोगिरा । न पुनर्गुरुकर्मत्वाद्, गुरुद्घता शशिप्रभः ॥६५२॥ अवाप्य सौधं सपदि, कनिष्ठो ज्येष्ठमभ्यधात् । 'सर्वसङ्गं परित्यज्य, भ्रातौ युज्यते व्रतम्' ॥६५३॥ अथो शशिप्रभः कर्महतधर्मप्रभोऽवदत् । 'जडस्त्वमिव नैवाहं, स्वार्थभ्रंशविधौ यते ॥६५४।। ऐहिकं सुखमुत्सृज्य, काङ्क्षन्नामुष्मिकं कुधीः । उभयभ्रंशं लब्धासे, सृगाल इव तद्यथा ॥६५५।। सृगालः कश्चिदास्यस्थं, मांसं मुक्त्वा सरित्तटे । उपादानाय मीनस्य, दधावे त्वरितैः पदैः ॥६५६॥ मीनोऽविशज्जलेऽगाधे, गृध्रो मांसमपाहरत् । ततोऽसावुभयभ्रष्टः, परं खेदमशिश्रियत् ॥६५७॥