SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १८४ श्री अजितप्रभुचरितम् सर्गः -२ बहुसमयमनैषीन्नाऽऽप तृप्ति तथापि, तदिह तंनुनि सौख्ये मानुषे कोऽनुबन्धः ||६३८ || [ मालिनीवृत्तम्] • इति विषयतुच्छत्वे मधुबिन्दुकथा । ग्रन्थाग्रम् ३७ अ. २८ ०– अहो ! देहकृते मूढा, अकृत्यानि वितन्वते । विचारयन्ति चित्तेन, संतत्त्वं तस्य नो पुनः ||६३९ ॥ श्रेष्ठाऽऽहार-गन्ध-माल्य-वस्त्राद्यैः सत्कृतोऽपि सन् । देहो न शौचं न स्थैर्यमपि धत्ते कदाचन ॥ ६४०॥ शीता-ऽऽतपा-ऽऽमयादेर्यद्यत्नेन बहुना व्यते । नैव नारकदुःखाब्धिपाते तद्वर्ष्म नाव्यते ॥ ६४१ ॥ , किं रक्षन्ति मुधा देहं गेहं सर्वापदां सदा । एकं धर्मं तु रक्षन्तु, निदानं सर्वसम्पदाम् ||६४२॥ अशाश्वतात् परवशात्, समलादन्तकादतः । ध्रुवं स्वतन्त्रममलं, सुकृतं गृह्णते बुधाः ||६४३|| दुर्गतिं शशिवत् प्राप्नोत्यङ्गलालनलालसः । श्रेयस्तु सूर वत् पुण्यहेतोरङ्गविशोषकः ||६४४ || तथाहि पत्तनं पाटलीपुत्र मस्ति शस्तैकमन्दिरम् । स्वर्वधूस्मयद्रूपवधूराजिविराजितम् ॥६४५॥ जितारिर्जगतीजानिस्तत्राऽभूद्दोषहानिकृत् । खानिः सन्नयरत्नानां, मानिताशेषकोविदः ||६४६ ॥ १. अल्पे । २. स्वरूपम् । ३. रक्ष्यते । ४. नौरिवाचरति ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy