________________
१८४
श्री अजितप्रभुचरितम् सर्गः -२
बहुसमयमनैषीन्नाऽऽप तृप्ति तथापि, तदिह तंनुनि सौख्ये मानुषे कोऽनुबन्धः ||६३८ || [ मालिनीवृत्तम्]
• इति विषयतुच्छत्वे मधुबिन्दुकथा । ग्रन्थाग्रम् ३७ अ. २८ ०– अहो ! देहकृते मूढा, अकृत्यानि वितन्वते । विचारयन्ति चित्तेन, संतत्त्वं तस्य नो पुनः ||६३९ ॥ श्रेष्ठाऽऽहार-गन्ध-माल्य-वस्त्राद्यैः सत्कृतोऽपि सन् । देहो न शौचं न स्थैर्यमपि धत्ते कदाचन ॥ ६४०॥ शीता-ऽऽतपा-ऽऽमयादेर्यद्यत्नेन बहुना व्यते । नैव नारकदुःखाब्धिपाते तद्वर्ष्म नाव्यते ॥ ६४१ ॥
,
किं रक्षन्ति मुधा देहं गेहं सर्वापदां सदा । एकं धर्मं तु रक्षन्तु, निदानं सर्वसम्पदाम् ||६४२॥
अशाश्वतात् परवशात्, समलादन्तकादतः । ध्रुवं स्वतन्त्रममलं, सुकृतं गृह्णते बुधाः ||६४३|| दुर्गतिं शशिवत् प्राप्नोत्यङ्गलालनलालसः । श्रेयस्तु सूर वत् पुण्यहेतोरङ्गविशोषकः ||६४४ || तथाहि
पत्तनं पाटलीपुत्र मस्ति शस्तैकमन्दिरम् । स्वर्वधूस्मयद्रूपवधूराजिविराजितम् ॥६४५॥ जितारिर्जगतीजानिस्तत्राऽभूद्दोषहानिकृत् । खानिः सन्नयरत्नानां, मानिताशेषकोविदः ||६४६ ॥ १. अल्पे । २. स्वरूपम् । ३. रक्ष्यते । ४. नौरिवाचरति ।