________________
विषयतुच्छत्वे मधुबिन्दुकथा
अथ व्योमपथक्रोडे, कोऽपि विद्याधरश्चरन् । नुन्नो दयितया क्रष्टुममुं बन्धुरिवाययौ ॥६२९॥ तस्मिन् प्रदत्तहस्तेऽपि, मधुबिन्दुप्रलुब्धधीः । निर्गन्तुमीहते नासौ, हा मूढात्मा हताशयः ||६३०॥
भावार्थ: पुनरेतस्य, दृष्टान्तस्य निशम्यताम् । यः पुमान् स भवी जन्तुर्याऽटवी संसृतिस्तु सा ॥६३१॥
यो दन्ती स पुनर्मृत्युर्यः कूपो नरजन्म तत् । यः शयुर्नरकः सोऽत्र, ये हयस्ते दादयः ||६३२॥ न्यग्रोधद्रुप्ररोहो यस्तदायुर्मूषकौ पुनः । शुक्ल- कृष्णौ परिज्ञेयौ, पक्षावायुर्विभेदकौ ॥६३३॥ या मक्षिका आमयास्ते, मधुबिन्दुः पुनर्यकः । तकत् सुखं वैषयिकं, देहिनां प्रीतिहेतुकम् ॥६३४|| यस्तु विद्याधरः क्रष्टा, स गुरुर्भवतारकः । प्रेयसी त्वस्य करुणा, निर्निमित्तोपकारिणी ॥ ६३५ || गुरुणा कृष्यमाणोऽपि, प्राप्तक्लेशोच्चयोऽपि धिक् । नियियासति नैवाऽङ्गी, तुच्छसौख्यविमोहितः ॥ ६३६|| एवं सुखं वैषयिकं, बुद्ध्वा क्षुल्लं विनश्वरम् । यतध्वं मोक्षसौख्यायाऽदभ्रायाऽप्रतिपातिने || ६३७ ||
अमरसदनवर्त्ती जन्तुरेषोऽमरीभिः,
पटुचटुमयवाग्भिर्बाढमाराध्यमानः ।
१८३