________________
१८२
श्रीअजितप्रभुचरितम् सर्गः-२
दृशं कूपतले न्यस्यन्, पादावष्टम्भलिप्सया । ददर्शाऽजगरं चैष, निर्भाग्यानां धुरन्धरः ॥६१८॥ वाहसोऽपीक्षमाणस्तं, चिकीर्षुः कवलोपमम् । कूपान्तः प्रतिकूपाभं, व्याददाद्वदनं निजम् ॥६१९॥ दृशौ न्यस्यंस्ततो दिक्षु, चतसृष्वपि भीषणान् । सोऽद्राक्षीच्चतुरो मृत्योर्यामिकानिव भोगिनः ॥६२०।। उत्फणान् स्फारफूत्कारान्, जिघत्सून् विनिरीक्ष्य तान् । अकम्पत तनुस्तस्य, समीरधुतवल्लिवत् ॥६२१॥ स्वस्याऽवलम्बनीभूतं, प्ररोहं तं च मूषिकौ । सिताऽसितावविरतमच्छित्सातां श्रमोज्झितम् ॥६२२॥ परितोऽपि परिभ्राम्यन्नप्युपादातुमक्षमः । अस्पाक्षीत् पुष्करेणोच्चैर्मूर्द्धनि तं [नरं] द्विपः ॥६२३॥ तदप्राप्त्या चातिक्रुद्धो, विद्ध्वा तीक्ष्णै रदैर्वटम् । उत्पाटयन्निव हठादधुना[द्] दुर्धरः करी ॥६२४॥ उड्डीना वटशाखाग्रवर्त्तिनो मधुमण्डकात् । मक्षिका व्यलगन्नस्य, शरीरे तोमराननाः ॥६२५॥ लोहसन्दंशसङ्काशैर्जीवाकृष्टिपरैरिव । तुण्डैरस्थिषु विश्रान्तैः, सरघा अदशन्नमुम् ॥६२६।। मधुमण्डान्मधुबिन्दुर्गलित्वाऽस्याऽलिकस्थले । निपपात लुठित्वाऽथाऽविशदास्यं मुहुर्मुहुः ॥६२७॥ आसादिततदास्वादस्तादृक्प्राप्तदशोऽपि सः । सुखिनं स्वं पङ्कशैत्याद्, गर्ताकोल इवाऽबुधत् ॥६२८॥