________________
विषयतुच्छत्वे मधुबिन्दुकथा
विषयैरसकृत्प्राप्तैर्न तृप्ता जन्तवः क्वचित् । कृपीटयोनिवत् काष्ठैरापगाभिः पयोधिवत् ॥६०८॥
सुखं सर्षपसङ्काशं, दुःखं मन्दरसन्निभम् । विषयेषु मधुबिन्द्वा[स्वा ] दकस्य निदर्शनात् ॥ ६०९॥ तथाहि
कोऽपि सार्थः प्रभूतार्थपूर्णः कान्तारमाविशत् । कीनाशदासप्रतिमास्तस्करास्तत्र चापतन् ॥६१०॥ सार्थलोका निजप्राणत्राणैकमतयो द्रुतम् । दिशो दिशि पलायन्त, त्यक्तद्रविणसञ्चयाः ॥ ६११ ॥ कश्चिदेकः पुमांस्त्रस्त:, सार्थाद् भ्रष्टोऽभ्रमद् भृशम् । श्रान्तः क्षुधा-तृषाक्रान्तो, दीनवक्त्रो महावौ ॥६१२॥ क्रौर्यशिक्षागुरुः प्रेतपतेरप्युग्रगर्जितः । मूर्तिमानिव विन्ध्याद्रिः प्रश्च्योतन्मदनिर्झरः ||६१३ || क्रोधताम्राननः पादप्रपातैः कम्पयन् धराम् । उद्धरः सिन्धुरो वन्यो, मत्तस्तं प्रत्यधावत ॥ ६१४॥ युग्मम् ॥
' त्रस्तः स हस्ति' संस्पर्शगोचरं गतवान् पुमान् । पुरः पुरः पलायिष्ट, भयाधिष्ठितमानस: ॥ ६१५॥
दृष्ट्वा कूपं तृणच्छन्नं, ध्रुवमृत्योर्गजाद्भिया । सन्दिग्धमरणे तत्र, द्रुतं झम्पां ददावयम् ॥६१६॥ निपटंश्चाऽवटतटोद्भूतन्यग्रोधशाखिनः । प्ररोहेऽन्तर्लम्बमाने, विलग्याऽतिष्ठदन्तरा ॥ ६१७||
१. अग्निवत् । २. 'सस्ति हस्त' इति पु.प्रे. ।
१८१