________________
श्री अजितप्रभुचरितम् सर्गः -
इमामगडदत्तस्य, कथां कर्णसुधायिताम् । निधाय मानसे धीराः, सन्तु स्त्रीषु विरागिणः ॥ ६००|| वामाक्षीर्वर्ष्मभासा जितकनकरुचो दर्शितर्जुस्वभावा, दृष्ट्वा मुह्यन्ति जाल्माः स्फुरदुरुमदनोदग्रपत्रिप्रभिन्नाः । बुद्धवा केचित्तु शश्वत् स्रवदतुलमलापूरितास्ताः कृपाणीकल्पस्वान्ता नितान्तं विजहति सपदि प्रोज्ज्वलप्रज्ञयाऽऽढ्याः ||६०१ || [स्रग्धरावृत्तम्]
१८०
इति स्त्रीदुरन्ततायामगडदत्तकथा । [ ग्रन्थाग्रम् ] ३१३ विषयान् वाञ्छितान् प्राप्य, मोदन्ते मूढबुद्धयः । एतान् विषान्वितस्वादुभोज्याभान्न पुनर्विदुः ॥ ६०२ ॥ सौख्यं प्रपञ्च्य पञ्चापि, विषयाः स्वल्पमात्रकम् । नरकेऽनन्तदुःखेऽस्यन्त्यङ्गिनः प्राप्य पञ्चताम् ||६०३॥ विषयेभ्यः सुखं मोहाद्यदिच्छन्ति शरीरिणः । तदम्भो मृगतृष्णाभ्यस्तद्धनेभ्योऽथवा धनम् ||६०४|| दाशो मांसलवैर्मीनान्, सुगीतैर्लुब्धको मृगान् । शौनिकोऽवीन् घासलवैर्मृदुवाग्भिः शठो जनान् ||६०५।। यथा तथा मुखे रम्यैः, परिणामेऽतिदारुणैः । विषयैर्देहिनो मोहः, कष्टकोटिं नयत्यहो ! ||६०६|| युग्मम् ||
विषाभैविषयैस्तूर्णं, घूर्णिताः प्राणिनो ध्रुवम् । सच्छिक्षामवमन्यन्ते, [मन्यन्ते ] न हिताहितम् ॥ ६०७||
१. कृपणेभ्यः ।